________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
२७ अवचूरिः - आह - कथमार्तं संसारवर्द्धनमुच्यते - रागो० ।। रागो द्वषो मोहश्च येन संसारहेतव उक्ताः , आर्ते च ते त्रयोऽपि सम्भवन्ति, यतस्ततस्तत्संसारतरुबीजम् । आह - यद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमभिधीयते ? उच्यते, तिर्यग्गतावेव प्रभूतसत्त्वसंभवात् स्थितिबहुत्वाञ्च संसारोपचारः ।।१३।। टीका - इदं च संसारबीजमित्याह - स्पष्टा ।। १३ ।।
कावोयनीलकालालेस्साओ णाइसंकिलिट्ठाओ ।
अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ ।। १४ ।। अर्थलेशः - कावोय गाथा ।। आर्तध्यानोपगतस्य जीवस्य १-कापोत, २-नील, ३-कृष्ण, तिस्रो लेश्या स्युः। किं विशिष्टा लेश्याः? नातिसक्लिष्टा: नात्यन्ताऽशुभपरिणामाः । पुनः किं लक्षणा लेश्या:? कर्मपरिणामजनिताः ।।१४ ।।
दीपिका - कापोतनीलकृष्णलेश्या नातिसंक्लिष्टा रौद्रध्यानलेश्यापेक्षया आर्तध्यानमुपगतस्य प्राप्तस्य भवन्ति । तत्र कृष्णादिद्रव्यसाचिव्यजनिता जीवपरिणामा लेश्या उच्यन्ते । ताः स्वकर्मपरिणामजनिताः । चूर्णी कषाया अप्यातध्यानम् ।।१४ ।।
अवचूर्णिः - अथ आर्त्तध्यायिनो लेश्या आह - नातिसंक्लिष्टाः रौद्रध्यानलेश्यापेक्षया नात्यशुभानुभावाः स्युः ।।१४।।
अवचूरिः - अथार्त्तध्यायिनो लेश्या आह - कावो० ।। कापोतनीलकृष्णलेश्या नातिसंक्लिष्टा रौद्रध्यानलेश्यापेक्षया नाऽत्यशुभानुभावाः स्युः । आर्त्तध्यानोपगतस्य कर्मपरिणामजनिताः ।।१४।। टीका - आर्तध्यायिनो लेश्या आह- स्पष्टा ।। १४ ।।
तस्सऽक्कंदणसोयणपरिदेवणताडणाइं लिंगाइं ।
ट्ठाणिट्ठविओगाविओगवियणानिमित्ताई ।। १५ ।। अर्थलेशः - तस्स गाथा ।। तस्यार्तध्यानस्य एतानि लिङ्गानि भवन्ति। एतानि कानि ? आक्रन्दनं रोदनम्, शोचनम् शोककरणम्, परिदेवनं गाढस्वरेण रोदनम्, ताडनं हदयादीनां कुट्टनमित्यादीनि। किं विशिष्टानि लिङ्गानि ? इष्टवियोग-अनिष्टावियोग-अनिष्टवस्तुसंयोगरोगादिवेदनानिमित्तानि ।।१५।।
दीपिका - तस्य आर्तध्यानस्य लिङ्गानि- १-आक्रन्दन, २- शोचन, ३- परिदेवन, ४- ताडनादीनि, क्रमात् १-विलाप, २- साश्रुत्व, ३- दैन्यभाषण, ४- शीर्षादिकुट्टनरूपाणि । 'इट्ठा' कोऽर्थः? इष्टवियोगानिष्टावियोगौ वेदनानिमित्तं कारणं येषां तानीष्टानिष्टवियोगावियोगवेदनानिमित्तानि ।।१५।।
अवचूर्णिः - आर्त्तध्यायिनो लिङ्गान्याह - तस्यार्तध्यायिनः आक्रन्दनं महता शब्देन रोदनम्,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org