________________
२६
ध्यानशतकम्
धर्म्मध्यानमेव भवति । किं विशिष्टस्य मुनेः ? एतद् रागादिकं स्वकर्म्मपरिणामजनितमिति ध्यायन् तथा वस्तुस्वभावचिन्तन परस्य वस्तूनां देहादीनां स्वभावमनित्यतादिकं तस्य चिन्तनं स्मरणं तत्र परस्य तत्परस्य अपरं सम्यक्सहमानस्य ।। ११-१२ ।। एष चतुर्थ आर्त्तध्यानभेदो निदाननामको ज्ञेयः । एवमार्त्तध्यानस्य चत्वारो भेदाः कथिताः ।
दीपिका - द्वितीयतृतीयपक्षावाश्रित्याह- प्रशस्तालम्बनस्य ज्ञानार्थालम्बनवतोऽल्पसावद्यं प्रतीकारं कुर्वतो वाऽनिदानं धर्म्यध्यानमेवेति सम्बन्धः, सूत्रे उत्सर्गापवादयोरुक्तत्वात्, अन्यथा परलोकस्य साधयितुमशक्यत्वाच्च । तथा तपः संयमावेव प्रतीकारौ भवदुःखानाम्, तं मोक्षेप्यनिदानं निदानरहितं यथा भवति सेवमानस्य धर्म्यमेव, तथा तत्त्वतो मोक्षेच्छापि निदानमेव परं भावनायामपरिणतं सत्त्वमाश्रित्य व्यवहारात् सा अदुष्टा, अनेनैव प्रकारेण तच्चित्तशुद्धेर्भावात् क्रियायाः प्रवृत्तियोगाच्च ।।१२।।
अवचूर्णि: - कुर्वतो वा प्रशस्तालम्बनस्य प्रतीकारमल्पसावद्यम्, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, धर्म्यमनिदानमेव, तथा तपः संयमावेव प्रतीकारः सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य धर्म्यं धर्मध्यानमेव, अनिदानमिति क्रियाविशेषणम्, देवेन्द्रादिनिदानरहितंम् ।। १२ ।।
अवचूरिः - परिहृत आशंकागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह - कुण० ।। कुर्वतो वा प्रशस्तं ज्ञानाद्युपकारकमालम्बनं यस्य एतस्य प्रशस्तालम्बनस्य प्रतीकारम्, अल्पसावद्यमभाववचनः स्तोकवचनो वाऽल्पशब्दः । तथा तपः संयमावेव प्रतीकारस्तपः संयमप्रतीकारः सांसारिकदुःखानामिति गम्यते । तं च सेवमानस्य चशब्दात् प्रागुक्तप्रतीकारं च किम् ? धर्म्यं धर्मध्यानमेव स्यात् । कथं सेवमानस्यानिदानमिति क्रियाविशेषणं देवेन्द्रादिनिदानरहितमित्यर्थः । । १२ ।।
टीका - कुर्वतो वा प्रशस्तालम्बनस्य 'काहं अच्छित्तिमित्याद्यालम्बनवतः प्रतीकारं रोगचिकित्सनम् अल्पसावद्यमसावद्यम्, तपः संयमरूपं च प्रतीकारं संसारदुःखानां सेवतो धर्मं धर्मध्यानमेव नार्त्तम् अनिदानं राज्याद्यनभिलाषत्वात् ।। १२ ।।
रागो दोसो मोहो य, जेण संसारहेयवो भणिआ ।
अमिय ते तिणिवि, तो तं संसारतरुबीयं ।। १३ ।।
अथार्त्तध्यानवतो लेश्या आह
अर्थलेशः रागो गाथा ।। येन कारणेन लेश्याया कारणं रागो द्वेषो मोहश्च संसारकारणं संसारहेतवो भणिताः । आर्त्तध्याने ते रागादयः त्रयोऽपि भवन्ति । ततः तस्मात् कारणात् तदार्त्तध्यानं संसारतरुबीजं स्यात् ।। १३ ।।
Jain Education International 2010_02
-
दीपिका येन कारणेन रागादयः संसारहेतवो भणिताः । ते च त्रयोऽप्यार्त्ते भवन्ति, ततस्तदार्तं संसारतरुबीजम् ।। १३ ।।
अवचूर्णि
आह - कथमार्त्तं संसारवर्द्धनम् ? उच्यते
For Private & Personal Use Only
।। १३ ।।
www.jainelibrary.org