________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
२५
दीपिका - चतुर्विधमार्त्तध्यानं रागद्वेषमोहैरङ्कितस्य लाञ्छितस्य जीवस्य ओघतः संसारवर्द्धनं विशेषतस्तिर्यग्गतिमूलम् ।। १० ।।
अवचूर्णिः - संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषतः ।। १० ।।
अवचूरिः - अं० ।। एतत्चतुर्विधं रागद्वेषमोहाङ्कितस्य रागादिलाच्छितस्य आर्त्तध्यानं संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषतः ।। १० ।।
टीका - तदेतत्कस्य किं फलं च स्यादित्याह स्पष्टा ।।१०।।
मज्झत्थस्स उ मुणिणो सकम्मपरिणामजणिमेयंति । वत्थुस्सभावचिंतणपरस्स समं सहंतस्स ।। ११ ।।
दीपिका - ननु साधोरपि रोगेऽसमाधानं १ चिकित्साकृतौ च तद्वियोगध्यानापत्तेः २ स्तथा तपःसंयमासेवने च संसारदुःखवियोगध्यानाद् ३ आर्त्तध्यानाप्तिः, उच्यते सा रागादिवशगस्य स्यान्नान्यस्येत्याह - मध्यस्थस्यैव मुनेस्तुरवधारणे नान्यस्य, स्वकर्म्मपरिणामजनितमेतद्दुःखमिति वस्तुस्वभावचिन्तनपरस्य सम्यक् सहतः कुतोऽसमाधिः ? अपि तु धम्र्म्यं ध्यानमेव ।। ११ ।।
अवचूर्णि: - आह- साधोरपि शूलाद्यभिभूतस्याऽसमाधानात्तत्प्रतीकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः, तथा तपःसंयमासेवने च सांसारिकदुःखवियोगप्रणिधानादार्त्तध्यानप्राप्तिः, अत्रोच्यते, रागादिवशवर्त्तिनः स्यादेव, न पुनरन्यस्य इत्याह च- स्वकर्मपिरणामजनितमेतत् - शूलादि, इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक्सहमानस्य सतः कुतोऽसमाधानम् ? अपि तु धर्म्यमनिदानम् ।। ११ ।।
अवचूरिः - आह- साधोरपि शूलवेदनाद्यभिभूतस्यासमाधानात्तत्प्रतीकारकरणे च तद्विप्रयोगप्रणिधानापत्तेस्तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्त्तध्यानप्राप्तिरिति । अत्रोच्यते - रागादिवशवर्त्तिनः स्यादेव न पुनरन्यस्य । आह च - • मज्झ० ।। मध्यस्थस्यैव नान्यस्य मुनेः 'स्वकर्मपरिणामजनितमेतत् शूलादि' इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक्सहमानस्य सतः कुतोऽसमाधानमपि तु धर्म्यम् ।।११।।
टीका परः - साधोरपि रोगप्रतीकारकरणे तद्वियोगस्य, तपः संयमासेवने च सांसारिकदुःखवियोगस्य प्रणिधानापत्तेरार्त्तध्यानं स्यादित्यत्रोत्तरमाह ।। ११।।
-
कुणओ व पसत्थालंबणस्स पडियारमप्पसावज्रं ।
तवसंजमपडियारं च, सेवओ धम्ममणियाणं ।। १२ । ।
अर्थलेश: मज्झत्थ गाथा ।। कुणउ गाथा ।। अत्र मुनेः चिकित्सां कारयतो धर्मफलं स्वर्गादिवाञ्छां कुर्वत आर्त्तध्यानं भवेदिति । शिष्याशङ्कामाशङ्क्याह- मध्यस्थस्य मुनेः प्रशस्तालम्बनस्य अल्पसावद्यप्रकारं कुर्वतो धर्मध्यानमेव भवति । अपरमनिदानं तपः संयमप्रतीकारं सेवमानस्य
-
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org