________________
२४
ध्यानशतकम्
___ अवचूर्णिः - तृतीयमाह - इष्टानां मनोज्ञानां विषयादीनामादिशब्दाद्वस्तुग्रहः, तथा वेदनायाश्चेष्टाया अवियोगाध्यवसानमिति वर्तमानग्रहः, तथा धणियं संयोगाभिलाषश्चायत्यामित्यनागतग्रहः, रागोऽभिष्वङ्गस्तेन रक्तस्य जन्तोः ।। ८ ।।
अवचूरिः - तृतीयमाह - इट्ठा० ।। इष्टानां मनोज्ञानां विषयादीनामादिशब्दाद्वस्तुग्रहः । तथा वेदनायाश्चेष्टाया इति वर्त्तते । अवियोगाध्यवसानमविप्रयोगे दृढोऽध्यवसायः । अनेन वर्तमानग्रहः तथेत्यत्यर्थं संयोगाभिलाषः कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा इत्यनागतग्रहः चशब्दात्प्राग्वदतीतग्रहः । रागोऽभिष्वङ्गस्तेन रक्तस्य तद्भावितमूर्तेः ।।८।। टीका - तृतीयमाह - रागरक्तस्य प्रेमभावितचेतसः। वेदना इहेष्टा ज्ञेया ।। ८ ।।
देविंदचक्कवट्टि-तणाइं गुणरिद्धिपत्थणमईयं ।
अहमं नियाणचिंतण-मण्णाणाणुगयमचंतं ।। ९ ।। अर्थलेशः - देविंदगाथा ।।यस्य जीवस्य अधमं निदानचिन्तनं स्यात्। किं विशिष्टं निदानचिन्तनम्? देवेन्द्रचक्रवर्तित्वादिप्रार्थनामयम् । पुनः किं विशिष्टं निदानम् ? अत्यन्ताज्ञानानुगतम् अज्ञानत्वेन सहितमित्यर्थः । एष आर्त्तध्यानस्य चतुर्थो भेदो निदानचिन्तानामको ज्ञेयः ।। ९ ।।
दीपिका - देवेन्द्रादीनां गुणा रूपादयः, ऋद्धिर्विभूतिस्तत्प्रार्थनामयमनेन तपसा देवेन्द्रः स्यामित्यादिरूपं निदानचिन्तनम्। अज्ञानेरनुगतमाश्रितमत्यन्तम् ।। ९ ।। निदाननामा चतुर्थो भेद:४ ।
अवचूर्णिः - चतुर्थमाह - देवेन्द्रचक्रवर्त्यादीनां गुणर्द्धयः, तत्र गुणा: सुरूपादयः, ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तदधमं जघन्यं निदानचिन्तनम्, अहमनेन तपस्त्यागादिना देवेन्द्र: स्यामित्यादिरूपम्, यस्मादज्ञानानुगतमत्यन्तम्, नाज्ञानिनो विहाय सांसारिकसुखेष्वन्येषामभिलाषः ।। ९ ।।
अवचूरिः - चतुर्थमाह - देविं० ।। देवेन्द्रचक्रादीनां गुणर्द्धयः गुणा सुरूपादयः ऋद्धिस्तु विभूतिस्तत्प्रार्थनात्मकम्, किम् ? तदधर्म जघन्यं निदानचिन्तनमहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपम् । यस्मादज्ञानानुगतमत्यन्तम्, 'नो ज्ञानिनो विहाय सांसारिकसुखेष्वन्येषामभिलाषः' ।।९।। .
टीका - चतुर्थमाह - देवेन्द्राश्चमरादयः, चक्रवर्तिनः प्रतीताः। आदिशब्दाद्वासुदेवाद्यास्तेषां गुणा रूपाद्याः संसारसुखाभिलाषरूपत्वात् । निदानचिन्तनमत्यन्तमज्ञानानुगतम्, न हि ज्ञानिनो निदानं कुर्वते ।। ९ ।।
एयं चउब्विहं, रागद्दोसमोहंकियस्स जीवस्स ।
अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ।। १० ।। अर्थलेशः - एयं गाथा । एतत् चतुर्विधमार्तध्यानं रागद्वेषमोहाङ्कितस्य जीवस्य भवति । किं विशिष्टम् आर्त्तध्यानम् ? संसारवर्द्धनं तथा तिर्यग्गतिमूलम् ।।१०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org