________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
२३
अर्थलेशः तह गाथा ।। तथा यस्य जीवस्य शूलशीर्षरोगादिवेदनाया वियोगप्रणिधानं स्यात् । तथा तदसम्प्रयोगचिन्तनं च तेषां रोगाणामसम्प्रयोगः अनुत्पत्तिस्तस्याश्चिन्तनं च स्यात् । किं विशिष्टस्य जीवस्य ? तत्प्रतीकाराकुलमनसः । तेषां रोगाणां प्रतीकाराय आकुलचित्तस्य एष द्वितीय आर्त्तध्यानभेदः। रोगचिकित्साकुल [म]नानाम् मम रोगा कदा यास्यन्ति । रक्षे (?) नवीना उत्पद्यन्ते इति चिन्ताव्याकुलस्यायं भेदः ।। ७ ।।
दीपिका तथाऽत्यर्थं शूलशीर्षरोगादिवेदनाया वियोगे प्रणिधानं दृढोऽभिप्रायः इति वर्त्तमानकालग्रहस्तथा तस्या वेदनाया अभावे सत्यसम्प्रयोगचिन्ता वियोगचिन्ता तत्प्रतिकाराकुलमनसो जीवस्य स्यात् । भविष्यातीतकालावत्र स्वयं ज्ञेयौ । वेदनाऽसम्प्रयोगनामा द्वितीयो भेदः २ ॥७॥
-
अवचूर्णिः - द्वितीयमाह - तथाऽत्यर्थमेव, शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं वियोगे दृढाध्यवसाय इति वर्त्तमानग्रहः, तदसम्प्रयोगचिन्ता तस्याः वेदनायाः कथञ्चिदभावे सति असम्प्रयोगचिन्ता, कथं ममाऽनयाऽऽयत्यां सम्प्रयोगो न स्यादिति चिन्ताध्यानमित्यनागतकालग्रहः, पूर्ववदतीतग्रहोऽपि ज्ञेयः, तत्प्रतीकारे वेदनाप्रतीकारे चिकित्सायामाकुलं, व्यग्रं मनो यस्य स तथाविधस्तस्य वियोगप्रणिधानाद्यार्त्तध्यानम् ।। ७ ।।
अवचूरिः - द्वितीयमाह - तह० ।। तथाऽत्यर्थमेव शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्त्तमानकालग्रहः । तदसंप्रयोगचिन्ता तस्या वेदनायाः कथंचिदभावे सति असंप्रयोगचिन्ता, कथं ममानया आयत्यां संप्रयोगो न स्यादिति चिन्ताध्यानम् इत्यनागतग्रहः, पूर्ववदतीतमिहापि विज्ञेयः । तत्प्रतीकारे वेदनाप्रतीकारे चिकित्सायामाकुलं व्यग्रं मानसं यस्य तथाविधस्तस्य वियोगप्रणिधानाद्यार्त्तध्यानम् ।।७।। टीका - द्वितीयमाह स्पष्टा । नवरं ' तयसंपओगचिंतणं तेषां रोगाणां तत्कालमसम्प्रयोगचिन्तनम् । असम्प्रयोगानुस्मरणं चानागतकालेपि ।। ७ ।
इट्ठाणं विसयाईण, वेयणाए य रागरत्तस्स । अवियोगऽज्झवसाणं, तह संजोगाभिलासो य ।। ८ ।।
अर्थलेशः इाणं गाथा ॥ यस्य जीवस्य रागरक्तस्य रागरञ्जितचित्तस्य इष्टानां विषयादीनामिष्टाया वेदनाया सातवेदनरूपाया अवियोगाध्यवसानमवियोगचिन्तारूपं स्यात् । तथा संयोगाभिलाषश्च स्यात् । एते स्त्र्यादयपदार्था इष्टास्तेषां वियोगो मा भवतु । संयोगस्तु सदास्तु इति चिन्तारूपं तृतीय आर्त्तध्यानभेदः इष्टसंयोगचिन्तानामको ज्ञेयः ।।८।।
दीपिका इष्टानां विषयादीनाम्, आदिशब्दाद्वस्तूनाम्, इष्टाया वेदनायाश्च सातवेद्यरूपाया रागरक्तस्यावियोगाध्यवसानं दृढोऽभिप्रायः, अनेन वर्त्तमानातीतकालौ गृहीतौ, तथा इष्टविषयादीनां सातवेदनायाश्च संयोगाभिलाषश्च । अनेनैष्यत्कालग्रहः ।। ८ ।। इष्टसम्प्रयोगनामा तृतीयो भेदः ३ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org