________________
२२
ध्यानशतकम्
टीका - उक्तं ध्यानसामान्यलक्षणम् । विशेषमाह - स्पष्टा ।। ५ ।।
[अथ आर्तध्यानम् अमणुण्णाणं सद्दा-इविसयवत्थूण दोसमइलस्स ।
धणियं विओगचिंतण-मसंपओगाणुसरणं च ।। ६ ।। अर्थलेशः - अमणु गाथा ।। आर्त्तादीनि चत्वार्यपि प्रत्येकं चतुर्भेदानि स्युः । तत्रार्तध्यानस्य चत्वारो भेदा यथा । जीवस्य द्वेषमलिनस्य। अमनोज्ञानां शब्दादिविषयवस्तूनां पञ्चानामपि धनिकमत्यर्थवियोगचिन्तनम्, तथा असम्प्रयोगानुस्मरणं च प्रथम आर्त्तध्यानभेदः। एतेषां शब्दादीनां विरूपाणां कदा वियोगो भविष्यति । रक्षे [?] एते शब्दादयो विरूपा: कदापि [न] मिलन्तीति भावार्थः ।। ६ ।।
दीपिका - चत्वार्यपि चतुर्द्धा, तत्राद्यभेदानाह - अमनोज्ञानां शब्दादिविषयाधारवस्तूनां द्वेषमलिनस्य जीवस्य 'धणियं' अत्यर्थं वियोगचिन्तनम्, यथा कथमेभिः सह वियोगः स्यादिति वर्तमानग्रहः, सति च वियोगेऽसम्प्रयोगानुस्मरणम्, सदैवैभिः सहासम्प्रयोगो -वियोगो भूयादित्यनेनैष्यत्कालग्रहः चशब्दात्पूर्वमपि वियोगायोगयोर्मतत्वादतीतकालग्रहः ।। ६ ।। इति अनिष्टसम्प्रयोगनामा प्रथमो भेदः १।
अवचूर्णिः - आर्त्तध्यानं चतुर्द्धा, तत्राद्यं भेदमाह - अमनोज्ञानां [शब्दादयः] विषया इन्द्रियगोचरा वस्तूनि च तेषां शब्दादिविषयवस्तूनां सम्प्राप्तानां सताम्, 'धणियं' अत्यर्थं वियोगचिन्तनं कथमेभिर्वियोगः स्यात्? अनेन वर्तमानकालग्रहः, तथा सति वियोगेऽसम्प्रयोगानुस्मरणम्, कथमेभिः सह सदैव सम्प्रयोगाभावः? अनेनानागतकालग्रहः, चशब्दात् पूर्वकालमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रहः, किंविशिष्टस्य सत इदं वियोगचिन्तनादि? द्वेषमलिनस्य तदाक्रान्तमूर्तेर्जन्तोः ।।६।।
अवचूरिः - आर्त्तध्यानं चतुर्द्धा, तत्राद्यं भेदमाह - अम० ।। अमनोज्ञानामनिष्टानां विषया इन्द्रियगोचरा वस्तूनि तु तदाधारभूतानि रासभादीनि ततश्च शब्दादिविषयवस्तूनां संप्राप्तानां सताम् [धणियं' अत्यर्थं वियोगचिन्तनं कथं नु नाम ममैभिर्वियोगः स्यादनेन वर्तमानकालग्रहः, तथा वियोगेऽसम्प्रयोगानुस्मरणं कथमेभिः सदैव सम्प्रयो] गाभावोऽनेन चानागतकालग्रहणम्, चशब्दात्पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनातीतकाल संयुज्य वियुक्त आदित एव न संयुक्तस्तत्सुंदरमभूदित्येवमतीतमनुमोदमानस्यातीतकालविषयमप्यातः स्यादित्यर्थः । किं विशिष्टस्य सत इदं वियोगचिन्तनादि ? द्वेषमलिनस्य अप्रीतिलक्षणो द्वेषस्तेन मलिनस्य तदाक्रान्तमूर्ते जीवाः ।।६।।
___टीका - अथार्त्तध्यानं चतुर्धा तस्याद्यभेदमाह - अमनोज्ञानामनिष्टानां शब्दादीनां विषयाणां वस्तूनां रासभादीनाम्, द्वेषमलिनस्य द्वेषाक्रान्तमूर्तेः। धणियमत्यर्थं वियोगचिन्तनं कदा ममैभिर्वियोगः स्यादिति। असम्प्रयोगानुस्मरणम्, अनागतकालेपि कथं ममैभिरसम्प्रयोगः स्यादित्यनुस्मरणं च ।। ६ ।।
तह सूलसीसरोगा-इवेयणाए विजोगपणिहाणं । तदसंपओगचिंता, तप्पडियाराउलमणस्स ।। ७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org