________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
अंतोमुहत्तपरओ, चिंता झाणंतरं व होजाहि । __ सुचिरंपि होज बहुव-त्थुसंकमे झाणसंताणो ।। ४ ।।
अर्थलेशः - अंतो गाथा ।। अन्तर्मुहूर्तात् परत: चिन्ता सांसारिकी धार्मिकी वा स्यात् । ध्यानान्तरं वा स्यात् । बह्वर्थसङ्क्रमे सति सुचिरमपि बहुकालमपि ध्यानसन्तान: स्यात् ।।४।।
दीपिका - छद्मस्थानामन्तर्मुहूर्त्तमात्रध्यानात्परतः चिन्ता प्रागुक्तरूपा ध्यानान्तरं भावनानुप्रेक्षात्मकं वा भवेत् । एतञ्चोत्तरकालभाविनि ध्याने सति स्यान्नान्यथा । तत्रापि ध्यानादूर्ध्वं चिन्ता ध्यानान्तरं वेत्याद्येवं सुचिरमपि बहुवस्तुसङ्क्रमे ध्यानसन्तानो भवेत् ।। ४ ।।
अवचूर्णिः - छद्मस्थानामन्तर्मुहूर्तात्परतो यत्स्यात्तदाह- भिन्नमुहूर्तादूर्ध्वं चिन्ता प्रागुक्तस्वरूपा ध्यानान्तरं वा भवेद्भावनानुप्रेक्षात्मकं चेतः, सुचिरमपि कालं भवेद् बहुवस्तुसङ्क्रमे ध्यानसन्तानो ध्यानप्रवाहः, बहूवस्तूनि चात्मगतानि मनःप्रभृतीनि, परगतानि द्रव्यादीनि, तेषु सङ्क्रमः सञ्चरणम् ।।४।।
अवचूरिः - छद्मस्थानामन्तर्मुहूर्तपरतो यत्स्यात्तदाह - अंतो० ।। अन्तर्मुहूर्तात्परत इति भिन्नमुहूर्तादूर्ध्वं चिन्ता प्रागक्तस्वरूपा तथा ध्यानान्तरं वा । इह न ध्यानादन्यद ध्यानं ध्यानान्तरं गृह्यते । किं तर्हि ? भावनानुप्रेक्षात्मकं चेतः । इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति स्यात् । तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसंतानप्राप्तिः यतः, अतस्तमेव कालमानं वस्तुसंक्रमद्वारेणाह सुचिरमपि प्रभूतमपि कालं भवेत्, बहुवस्तुसंक्रमे सति ध्यानसंतानो ध्यानप्रवाह बहुवस्तूनि चात्मगतानि मनःप्रभृतीनि, परगतानि द्रव्यादीनि तेषु संक्रमः संचरणम् ।।४।। टीका - अन्तर्मुहूर्तात्परतः किमित्याह- स्पष्टा ।।४।।
अटुं रुदं धम्मं, सुक्कं झाणाइ तत्थ अंताई ।
निव्वाणसाहणाइं, भवकारणमट्टरुद्दाइं ।। ५ ।। अर्थलेशः - अट्ट गाथा ।। ध्यानानि चत्त्वारि स्युः । कथम्? १-आतं, २-रौद्रं, ३-धर्म, ४-शुक्लम् । तत्र अन्त्यध्याने धर्म-शुक्लरूपे निर्वाणसाधके भवतः। आर्त्तरौद्रे भवसाधने संसारकारणे स्तः ।। ५ ।।
दीपिका - १-ऋतं-दुःखं तत्र भवम् आर्तम्, २-क्रौर्यानुगतं रोदयति जीवं नरके इति रौद्रम्, ३चरण-श्रुतधर्मानुगतं धर्म्यम् , ४-शोधयत्यष्टकर्माणि शुचं क्लमयतीति शुक्लम् । तत्रान्ते इति धर्म्यशुक्ले ।।५।।
अवचूर्णिः - इत्थं ध्यानस्य सामान्येन लक्षणमुक्त्वा विशेषत आह -
अवचूरिः - इत्थं ध्यानस्य सामान्येन लक्षणमुक्त्वा विशेषत आह - अटुं० ।। १-ऋतं दुःखं तन्निमित्तो दृढोऽध्यवसाय ऋते भवमार्त्तम्, २-हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, ३-श्रुतचरणधर्मानुगतं धर्मम्, ४-शुचं क्लमयति शुक्लम् । तत्रान्ते ध्याने धर्मशुक्ले निर्वाणसाधने भवकारणमातरौद्रे, भवग्रहणादिह तिर्यग्नारकभवग्रहः ।।५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org