________________
२०
ध्यानशतकम् वा स्यात्। तत्र भावना अनित्याद्या द्वादशभेदा । अनुप्रेक्षा शास्त्रार्थचिन्ता । चिन्ता यादृशी तादृशी सांसारिकी धार्मिकी वा स्यात् ।। २ ।।
दीपिका - यत् स्थिरमेकाग्रालम्बनमध्यवसानं मनस्तद्धयानम्, यञ्चलं मनस्तश्चित्तमुच्यते। तचित्तमोघतस्त्रिधा भवेत्। 'भावणा वा' भाव्यते इति भावना ध्यानाभ्यासक्रिया, अनु - पश्चात्प्रेक्षा स्मृतिर्थ्यानाद् भ्रष्टस्य चित्तचेष्टानुप्रेक्षा वा, उक्तद्विभेदवर्जमनश्चेष्टा चिन्ताऽथवा ।।२।।
अवचूर्णिः - यत् स्थिरमध्यवसानं तद्ध्यानम्, यत्तु चलं तञ्चित्तम्, तचित्तं भवेद्भावना ध्यानाभ्यासक्रिया, अनुप्रेक्षा अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, अथवा चिन्ता प्रोक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा सा चिन्ता ।। २ ।।
__ अवचूरिः - ध्यानलक्षणमाह - जं थिर० ।। यत्स्थिरमध्यवसानं मन एकाग्रालम्बनं तद्ध्यानम्, यञ्चलमनवस्थितं तचित्तम्, तञ्चोघतस्त्रिधेति दर्शयति । १-तचित्तं भवेत् भाव्यत इति भावना ध्यानायाभ्यासक्रिया, २-अनुप्रेक्षा वाऽनु पश्चाद्भावो प्रेक्षणं प्रेक्षा सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, ३-अथवा चिन्ता प्रोक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा सा चिन्ता ।।२।।
टीका - ध्यानाध्यानलक्षणमाह- यञ्चलं तश्चित्तम् । तञ्च त्रिधा । भाव्यत इति भावना ध्यानाभ्यासक्रिया, अनुप्रेक्षा ध्यानाद् भ्रष्टस्य पुनस्तदनुचिन्तनम्, अथवा चिन्ता मनश्चेष्टा ।। २ ।।
अंतोमुहत्तमेत्तं, चित्तावत्थाणमेगवत्थुमि ।
छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु ।। ३ ।। अर्थलेशः - अंतो गाथा ।। छद्मस्थानामन्तर्मुहूर्तमेकवस्तुनि चित्तावस्थानं ध्यानं स्यात्। तु पुनर्जिनानां योगनिरोधो ध्यानं भवति ।। ३ ।।
दीपिका - इह समाधिस्थैकोच्छासनिःश्वासरूपप्राणसप्तकोत्थस्तोकसप्तकलवः, सप्तसप्ततिलवैर्मुहूर्त तन्मध्यमन्तमुहूर्तं तन्मात्रमेकवस्तुनि चित्तावस्थानं छद्मस्थानां ध्यानम्, जिनानां तु योगा मनोवाक्कायास्तेषां निरोधो निग्रहः शैलेश्यवस्थायां ध्यानम् ।।३।।
अवचूर्णिः - ध्यानलक्षणमुक्त्वा ध्यानमेव कालस्वामिभ्यामाह- अन्तर्मुहूर्त्तकालं चित्तावस्थानमेकस्मिन् वस्तुनि यत्तद् छद्मस्थानां ध्यानम्, योगनिरोध एव जिनानां केवलिनां ध्यानम्, न तु चित्तावस्थानम्, चित्तस्यैवाऽभावात्, एतदुपरिष्टाद्वक्ष्यामः ।। ३ ।।
अवचूरिः - ध्यानाध्यानलक्षणमुक्त्वा ध्यानमेव कालस्वामिभ्यामाह - अंतो० ।। अंतर्मुहूर्त्तमात्रं कालं चित्तस्यावस्थानं निःप्रकम्पतया वृत्तिरित्यर्थः । कस्मिन् ? वस्तुनि यत्तत् छद्मस्थानां ध्यानम् । योग औदारिकादिशरीरसंयोगसमुत्थआत्मपरिणामविशेषव्यापारस्तेषां तोरेवार्थत्वान्निरोध एव न तु चित्तावस्थानम्, चित्तस्यैवाभात् जिनानां यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमित्येतदुपरिष्ठाद्वक्ष्यामः ।।३।।
टीका - अथ कालस्वामिभ्यां ध्यानरूपमाह- त्रिपदी स्पष्टा । जिनानां केवलिनां पुनर्योगनिरोधो ध्यानम्, तेषां चित्ताभावात् ।। ३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org