SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-३ ।। पूज्यपादाचार्य श्रीमज्जिनभद्रगणिक्षमाश्रमणविरचित-ध्यानशतकस्य पूर्वाचार्यकृत अर्थलेश:, पूज्यपादाचार्य श्रीमाणिक्यशेखरसूरिकृता दीपिकाटीका, पूज्यपादाचार्यश्रीज्ञानसागरसूरिकृता अवचूर्णिः, पूज्यपादमुनिश्री धीरसुन्दरगणिरचिता अवचूरिः, पूज्यपादाचार्यश्रीतिलकसूरिकृता च लघुटीका ।। * वीरं सुक्कज्झाणग्गि-दड्डुकम्मिंधणं पणमिऊणं । जोईसरं सरणं, झाणज्झयणं पवक्खामि ॥ | १ || अर्थलेश: वीरं गाथा ।। अहं ध्यानाध्ययनं प्रवक्ष्यामि । किं कृत्वा ? वीरं श्रीवर्द्धमानं जिनं प्रणम्य। किं विशिष्टं वीरम् ? शुक्लध्यानाग्निदग्धकर्मेन्धनं तथा योगीश्वरम् अपरं शरण्यम् ।। १ ।। दीपिका ध्यानस्वरूपज्ञापनाय श्रीजिनभद्रगणिकृतो ध्यानशतकाख्यो ग्रन्थो व्याख्यायतेशुक्लध्यानाग्निदग्धकर्मेन्धनम्, योगो धर्म्यं शुक्लध्यानं सोऽस्ति येषां तैर्योगिभिः स्मर्यं ध्येयम्, शरण्यं शरणे हितम्, प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामि ॥ | १ || अस्य च शास्त्रान्तरत्वान्नमस्कारमादावाह - अवचूर्णिः अवचूरिः - असौ शास्त्रान्तरत्वान्नमस्कारमादावाह - वीरं० ।। शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य योगीश्वरं शरण्यं ध्यानप्रतिपादकमध्ययनं ध्यानाध्ययनं प्रवक्ष्ये ।।१।। * - टीका - ध्यानान्येव गाथाशतेनाह । तत्रादौ नमस्कारमाह विशिष्टमनोवाक्काययोगवन्तो योगिनः साधवस्तेषामीश्वरम् ।।१।। - जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा, अणुपेहा वा अहव चिंता ||२|| अर्थलेशः जं थिरं गाथा ।। यत् स्थिरमध्यवसानं निश्चलो मनः परिणामः तद् ध्यानं स्यात् चलं चञ्चलं तचित्तं भवति । तचित्तं भावनारूपं स्यात् । अनुप्रेक्षारूपं वा स्यात् । चिन्तारूपं यत् अस्मिन् परिशिष्टे ध्यानशतकस्योपरि रचितानां टीकादीनां समावेशः कृतः, तन्मध्ये चामुद्रितानामर्थलेश - अवचूरि - टीकानामपि ग्रहणं कृतमस्ति । सम्पा० । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy