________________
परिशिष्टम् - १D, लोकस्वरूपम्
वृ.- तीव्र उत्कट: रागश्च द्वेषश्च तत्राभिष्वङ्गलक्षणो राग: अप्रीतिलक्षणो द्वेष इति, एतावुदीर्णो यस्य जन्तोः यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम् एकवाक्यतयाऽनन्तजिनकथितं सम्यग् इति क्रियाविशेषणम्, अयं गाथार्थः ।। २०१ ।।
द्वारं, साम्प्रतं पर्यायलोक उच्यते, तत्रौघत: पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह
दव्वगुण १ खित्तपजव २ भवाणुभावे अ३ भावपरिणामे ४। जाण चउब्विहमेअं, पजवलोगं समासेणं ।।२०२।। [भा०]
वृ.- द्रव्यस्य गुणा: रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः तीव्रतमदुःखादिः, यथोक्तम्
“अच्छिणिमिलीयमेत्तं णस्थि सुहं दुक्खमेव अणुबंधं । णरए णेरइआणं अहोणिसिं पञ्चमाणाणं ।।१।।
असुभा उब्वियणिज्जा सद्दरसा रूवगंधफासा य । णरए णेरइआणं दुक्कयकम्मोवलित्ताणं ।। २ ।।" इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, जानीहि अवबुध्यस्व चतुर्विधमेनमोघत: पर्यायलोकं समासेन संक्षेपेणेति गाथार्थः ।। २०२ ।।
तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाहवन्नरसगंधसंठाणफासट्टाणगइवनभेए अ।। परिणामे अ बहुविहे पजवलोगं विआणाहि ।। २०३ ।। [भा०]
वृ.- वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थ:-वर्णादयः सभेदा गृह्यन्ते, तत्र वर्ण: कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः सुरभिरित्यादिभेदाद् द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्श: कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शवद्गतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्ग्रहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्वयाख्यातम् । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम्, शेषं द्वारद्वयं स्वयमेव भावनीयम्, तञ्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम् - परिणामांश्च बहुविधान् जीवाजीवभावगोचरान्, किम् ? पर्यायलोकं विजानीहि इति गाथार्थः ।। २०३ ।।
अक्षरयोजना पूर्ववदिति द्वारम्, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाहआलुक्कइ अ पलुक्कइ लुक्कइ संलुक्कई अ एगट्ठा । लोगो अट्ठविहो खलु तेणेसो वुई लोगो ।। १०५८ ।।
वृ.- आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलाक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोक: अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह -तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयमिति गाथार्थः ।। १०५८ ।। व्याख्यातो लोकः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org