________________
ध्यानशतकम्
वृ० - आकाशस्य प्रदेशाः प्रकृष्टा देशाः प्रदेशास्तान् ऊर्ध्वं च इत्यूर्ध्वलोके च अधश्च इत्यधोलोके च तिर्यग्लोके च, किम् ? जानीहि क्षेत्रलोकम्, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोर्काविभागस्तु सुज्ञेयः, अनन्तमित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, जिनदेशितम् इति जिनकथितं सम्यक् शोभनेन विधिनेति गाथार्थः।।१९७।।
साम्प्रतं काललोकप्रतिपादनायाह
१२
समयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य ।
संवच्छरजुगपलिआ सागरओसप्पिपरिअट्टा । । १९८ । । [ भा०]
वृ॰- इह परमनिकृष्टः कालः समयोऽभिधीयते, असङ्ख्येयसमयमाना त्वावलिका, द्विघटिको मुहूर्त:, षोडश मुहूर्ता दिवसः, द्वात्रिंशदहोरात्रम्, पञ्चदशाहोरात्राणि पक्षः, द्वौ पक्षौ मासः, द्वादश मासाः संवत्सरमिति, पञ्चसंवत्सरं युगम्, पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयम्, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, परावर्त: पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः । । १९८ ।।
उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भवलोकमभिधित्सुराह -
अदेवमणुआ तिरिक्खजोणीगया य जे सत्ता ।
तं भवे वट्टंता भवलोगं तं विआणाहि । । ९९९ ।। [ भा०]
वृ० - नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये सत्त्वाः प्राणिनः तंमित्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि लोकयोजना पूर्ववदिति गाथार्थः । । १९९ ।।
साम्प्रतं भावलोकमुपदर्शयति
ओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ ४ । परिणामि ५ सन्निवाए अ ६ छव्विहो भावलोगो उ ।। २०० । । [ भा०]
वृ० - उदयेन निर्वृत्त औदयिकः कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यम्, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकच, एवं षड्विधो भावलोकस्तु तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति,
उक्तं च
"ओदइअखओवसमे परिणामेक्वेक्को गइचउक्केऽवि । खयजोगेणवि चउरो तदभावे उवसमेपि ।। १ ।।
उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पण्णरस ॥ २ । । "त्ति गाथार्थः । । २०० ।।
तिव्वो रागो अदोसो अ, उइन्ना जस्स जंतुणो ।
जाणाहि भावलोअं, अनंतजिणदेसिअं सम्मं । । २०१ ।। [ भा० ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org