________________
परिशिष्टम् - १D, लोकस्वरूपम्
परिशिष्टम्-१D. ['भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः' इति श्रीध्यानशतके गाथा-५३ वृत्तौ देशितम् ।
तदनुसारेणात्र चतुर्विंशतिस्तवाध्ययन-वृत्तिगतं लोकस्वरूपं समुद्धृतम् । - सम्पा० ।] अव० तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह
णामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ ६ भावे अ ७ । पजवलोगे अ ८ तहा अट्ठविहो लोगणिक्खेवो ।।१०५७ ।। [आव. नि.]
वृ.- नामलोकः, स्थापनालोकः, द्रव्यलोकः, क्षेत्रलोकः, काललोकः, भवलोकः, भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ।।
व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रूवमरूवी सपएसमप्पएसे अ । जाणाहि दव्वलोगं णिश्चमणिग्नं च जं दव्वं ।।१९५ ।। [भा०]
वृ.- जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ-रूप्यरूपिभेदाद्, आह च-रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः- संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकाया: रूपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-सप्रदेशाप्रदेशाविति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयम्, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यम्, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यत: परमाणुरप्रदेशो व्यणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो व्यादिप्रदेशावगाढा: सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकं द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् द्रव्यं चशब्दादभिलाप्यानभिलाप्यादिसमुञ्चय इति गाथार्थः ।।१९५ ।।
साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाहगइ १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्धा य २ । तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ ट्ठिई चउहा ।।१९६ ।। [भा०]
वृ.-अस्या: सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः, साद्यपर्यवसानाः, अनादिसपर्यवसाना अनाद्यपर्यवसानाः । एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः। द्वारम् ।।
अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्रआगासस्स पएसा उड्टुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अणंत जिणदेसिअं सम्मं ।।१९७।। [भा०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org