________________
३
परिशिष्टम् - १B, सम्यक्त्वस्यातिचाराः
परिशिष्टम्-१B ['तेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः' इति श्रीध्यानशतके गा. ३२ वृत्तौ वृत्तिकारमहर्षि-पूज्याचार्यहरिभद्रसूरिभिः निर्देशितम्। तदनुसारेणात्र प्रत्याख्यानाध्ययनवृत्तिगतं सम्यक्त्वस्य शङ्कादि-अतिचारसन्दर्भमुद्धृतम् । - सम्पा०]
१ - शङ्कनं शङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति । संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च । देशशङ्का देशविषया, यथा किमयमात्माऽसङ्ख्येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयव: स्यादिति । सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्अभिगृहीताऽनभिगृहीत-संशयभेदात् । तत्र संशयो मिथ्यात्वमेव । यदाह
पयमक्खरं च एक्कं जो न रोएइ सुत्तनि४ि । सेसं रोयंतो वि हु मिच्छद्दिट्ठी मुणेयव्वो ।।१।। तथा - सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ।।१।।
एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत् स चादिहेतुर्भवगतीनाम् ।।२।। तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यम्, संशयास्पदमपि सत्यम्, सर्वज्ञाभिहितत्वात्, तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कात्यंन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन । यदाह
न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ।।१।।
इह चोदाहरणम् – जो संकं करेइ सो विणस्सति, जहा सो पेज्जापायओ, पेज्जाए मासा जे परिभज्जमाणा ते छूढा, अंधगारए लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति-एयाओ मच्छियाओ, संकाए तस्स वग्गुलो वाउ जाओ, मओ य । बिइओ चिंतेइ- न मम माया मच्छिया देइ, जीओ । एते दोसा ।
२ - काङ्क्षणं काङ्क्षा- सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तम्-'कंखा अन्नन्नदसणग्गाहो' सा पुनर्दिभेदा- देशकाङ्क्षा सर्वकाङ्क्षा च । देशकाङ्क्षकदेशविषया, एकमेव सौगतं दर्शनं काङ्क्षति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति । सर्वकाङ्क्षा तु सर्वदर्शनान्येव काङ्क्षति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिल-कणभक्षा-ऽक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यत: शोभनान्येवेति, अथवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादैकान्तिकमव्याबाधमपवर्गं विहायान्यत्र काङ्क्षा न कार्येति।
एत्थोदाहरणम्- राया कुमारामञ्चो य आसेणावहिया अडविं पविठ्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ-लड्डय-पूयलगमादीणि सव्वाणि खामि, आगया दोवि जणा, रण्णा सूयारा भणिया-जं लोए पयरइ तं सव्वं सब्वे रंधेहत्ति, उवट्ठवियं च रन्नो, सो राया पेच्छणयदिटुंतं करेइ, कप्पडिया
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org