________________
ध्यानशतकम्
सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम्। सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ।। २० ।। कृतोर्ध्वदेहिकोऽभाणि सुलसः स्वजनैरिति। पितुः श्रयपदं स्याम सनाथा हि त्वया यथा ।। २१ ।। सुलसस्तानुवाचेदं करिष्ये कर्म न ह्यदः। किञ्चिल्लेभे फलं पित्राऽप्यत्रैवामुष्य कर्मणः ।। २२ ।। यथा मम प्रियाः प्राणास्तथाऽन्यप्राणिनामपि। स्वप्राणिताय धिगहो परप्राणप्रमारणम् ।। २३ ।। हिंसाजीविकया जीवेत् कः प्रेक्ष्य फलमीदृशम्। मरणैकफलं ज्ञात्वा किंपाकफलमत्ति कः ।। २४ ।। अथ ते स्वजनाः प्रोचुः पापं प्राणिवधेऽत्र यत् । तद्विभज्य ग्रहीष्यामो हिरण्यमिव गोत्रिणः ।। २५ ।। त्वमेकं महिष हन्या हनिष्यामोऽपरान् वयम्। अत्यल्पमेव ते पापं भविष्यति ततो ननु ।। २६ ।। आदाय सुलसः पित्र्यं कुठारं पाणिना ततः। तेनाजघ्ने निजां जङ्घा मूर्छितो निपपात च ।। २७ ।। लब्धसंज्ञस्ततोऽवादीत् साक्रन्द: करुणस्वरम्। हा कुठारप्रहारेण कठोरेणास्मि पडितः ।। २८ ।। गृह्णीत बन्धवो यूयं विभज्य मम वेदनाम्। स्यामल्पवेदनो येन पीडितं पात पात माम् ।। २९ ।। सुलसं खिन्नमनसस्ते च प्रतिबभाषिरे । पीडा कस्यापि केनापि गृहीतुं शक्यते किमु ।। ३० ।। सुलसो व्याजहारेदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे तत्कथं नरकव्यथाम् ।। ३१ ।। कृत्वा पापं कुटुम्बार्थे घोरां नरकवेदनाम् । एकोऽमुत्र सहिष्येऽहं स्थास्यन्त्यत्रैव बान्धवाः ।। ३२ ।। हिंसां तन्न करिष्यामि पैत्रिकीमपि सर्वथा। पिता भवति यद्यन्धः किमन्धः स्यात्सुतोऽपि हि ।। ३३ ।। एवं व्याहरमाणस्य सुलसस्यातिपीडया। प्रतिजागरणायागादभयः श्रेणिकात्मजः ।। ३४ ।। परिरभ्य बभाषे तमभय: साधु साधु भोः। सर्वं ते श्रुतमस्माभिः प्रमोदाद्वयमागताः ।। ४५ ।। पापात्पैत्र्यादपक्रामन् कर्दमादिव दूरतः । त्वमेक: श्लाघ्यसे हन्त पक्षपातो गुणेषु नः ।। ३६ ।। सुलसं पेशलैरेवमालापैर्धर्मवत्सलः। अनुमोद्य निजं धाम स जगाम नृपात्मजः ।। ३७ ।। स्वाननादृत्य सुलसो गृहीतद्वादशव्रतः । दौर्गत्यभीतोऽस्थाज्जैनधर्मे रोर इवेश्वरे ।। ३८ ।।
कालसौकरिकसूनुरिवैवं, यस्त्यजेत् कुलभवामपि हिंसाम् । स्वर्गसम्पददवीयसि तस्य, श्रेयसामविषयो न हि किञ्चित् ।। ३९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org