________________
परिशिष्टम्-१५०, विचारसारप्रकरणे ध्यानस्वरूपम्
१४५ लक्षणास्तत्र सुनिपुणम् अनाद्यनिधनं सर्वभूतहतं यथार्थभावकथनरूपम् अजितम् अमितं महार्थमहानुभावं महाविस्तारं निरवद्यं जिनाज्ञापवित्रं नयभङ्गप्रमाणगहनं जिनागमं तदर्थचिन्तनहेतूदाहरणादिस्तत्रैकत्वरूपं जिनाज्ञा-सत्यत्वोपयोगैकत्वं प्रथमं धर्मध्याम्, कदाप्यवबोधे जिनाज्ञा सत्या इति चिन्तनम् । - [ध्यानशतके
अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा ।।
जियराग-दोस-मोहा य णण्णहावादिणो तेणं ।।४९।। इत्येकत्वरूपं प्रथमम् । अपाया रागद्वेषकषायाः एते मम न युज्यन्ते, भावना च - नाहं विभावकर्ता, नाहं विभावभोक्ता, नाहं विभावाधारः, नाहं विभावरसिकः, नाहं विभावपरिणामी, न च पुद्गलानां स्वामी, न चाधारः, न ग्राहकः, न व्यापको, नो पुद्गलानां योगे मम सुखम् परकर्तृत्वमेव दुःखम् यच्चानन्तनिर्विकारस्वभावाद् अन्यत् तत् न मम, एते रागद्वेषमिथ्यात्वादयो दोषा अपाया एव, तेषां योगे मम न स्थातव्यं इत्यादिचिन्तनैकाग्रतोपयोगरूपं द्वितीयम् ।
विपाकविचयश्च ज्ञानावरणादीनां नाहं कर्ता, नाहं भोक्ता, नाहम् आदाता, नाहं कर्मणा समृद्ध इत्युपयोगचिन्तनतन्मयत्वं तृतीयं विपाकविचयाख्यम् ।
चतुर्थं लोकोलोकस्वरूपम् ऊर्ध्वाधस्तिर्यग्लोकास्थानचिन्तनम्, वस्तुतः स्वीयासंख्येयप्रदेशगुणपर्यायावस्थानपरिणमनचिन्तनं तन्मयत्वं संस्थानविचयाख्यं धर्मध्यानम् । - [ध्यानशतके]
किं बहुणा ? सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं झाइज्जा समयसब्भावं ।।६२।। सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य ।
झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।।६३।। इत्यनेन धर्मध्यानध्यातारस्ते निर्ग्रन्था एव, अत्र दिग्पटाश्चतुर्थे गुणस्थानके आज्ञाविचयाख्यं धर्मध्यानमिच्छन्ति तदभिप्रायापरिज्ञानाद, आज्ञांगीकार-तद्भावनादयो भवन्ति आज्ञास्वरूपपैकत्वोपयोगस्थिरत्वमन्तर्मुहूर्त्तप्रमाणम् अनन्तानुबंधि-अप्रत्याख्यान-प्रत्याख्यानकषायोदयाभावे एव भवति नार्वाग् इत्युक्तं धर्मध्यानस्वरूपम् ।
शुक्लध्यानं तु निर्मलक्षयोपशमोद्भवयथार्थः चेतनाप्रागल्भ्ये निमित्तावलम्बनं प्रायः स्वरूपोपयोगी स्वरूपैकत्वपरिणतस्य भवति पूर्वविदः आद्ये शुक्ले तच्च तत्कालकृतज्ञानावरणीयक्षयोपशमरूपभावश्रुतापेक्षवचनद्रव्यश्रुतापेक्षः नो चेन्मरुदेवीमाषतुषादिषु व्यभिचारः, तच्छुक्लध्यानं चतुर्द्धा पृथक्त्ववितर्कसप्रविचाररूपं प्रथमम्, एकत्ववितर्कअप्रविचाररूपं द्वितीयम्, सूक्ष्मक्रियाप्रतिपातिरूपं तृतीयम्,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org