________________
१४४
ध्यानशतकम्
तद्विषयवाञ्छा निदानकरणरूपं चतुर्थम् । एवमार्त्तध्यानं चतुष्टयभेदं संसारवर्धनं तिर्यग्गतिमूलं ज्ञेयम्, - [ध्यानशतके ]
रागो दोसो मोहोय जेण संसारहेयवो भणिया ।
अमिय ते तिणि वि तो तं संसारतरुबीयं । । १३ ।।
लेश्या आद्या अप्रशस्तास्तिस्रः तस्य क्रन्दनशोचनपरिदेवनताडनलक्षणानि लिङ्गानि । पुनरुक्तं च [ ध्यानशतके ]
सद्दाइविसयगिद्धो सद्धम्मपरम्हो पमायपरो ।
जिणमयमणवेक्खंतो वट्टइ अहंमि झाणंमि ।। १७ ।। इत्यार्त्तस्वरूपम् ।
तच्च वधबन्धनवहनमारणप्रणिध्यानम् अतिक्रोधग्रहग्रस्तं निर्घृणं रुद्रघोरं परिणामं रुद्रध्यानं चतुर्विधं हिंसानुबन्धि १ मृषानुबन्धि १ चौर्यानुबन्धि १ परिग्रहरक्षणानुबन्धिरूपम् । तत्र हिंसा द्रव्यहिंसा, साच हिंसाकरणकारणानुमतिचिन्तनैकाग्रतारूपं प्रथमम् एवं मृषाभाषणे त्रिकरणैकत्वोपयोगतारूपं द्वितीयम्, चौर्यचिन्तनैकत्वरूपं तृतीयम्, परिग्रहमिलनरक्षणचिन्तातन्मयत्वरूपं तूर्यरुद्रम्, आद्ये लेश्यात्रयरूपम्, अस्य लिङ्गानि मरणाभिलाषमरणेहा [उत्सन्न-बहुल-नानाविधऽऽमरणाः,] परस्य व्यसने हर्षः, निर्दयत्वं परस्य कष्टकरणे, न अनुताप इत्यादीनि रुद्रध्यानस्वरूपम् ।
धर्मध्यानं तस्य भावना ज्ञानदर्शनचारित्रवैराग्यलक्षणानि । तत्र गाथा
Jain Education International 2010_02
-
णा णिच्चभासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ ।। ३१ ।। संकाइदोसरहिओ पसम-थेज्जाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि ।। ३२ ।। नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ।। ३३ ।। सुवदियजगस्सभावो निस्संगो निब्भओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ || ३४ ।।
इत्यादिभावनया विशुद्धपरिणामः मुनिर्धर्मध्यानमवलम्बते । धर्मध्यानस्यालम्बनानि वाचनापृच्छनापरिवर्त्तनाऽनुप्रेक्षालक्षणानि । धर्मध्यानभेदाः आज्ञाविचय- अपायविचय-विपाकविचय-संस्थानविचय
For Private & Personal Use Only
[ ध्यानशतके]
www.jainelibrary.org