________________
परिशिष्टम् - १५B
श्रीमद् देवचन्द्रगणिवरविरचित- विचारसारप्रकरणे ध्यानस्वरूपम् ।
सेसे मरणं इक्कं, अट्टरूद्दा य पढमपंचगुणे ।
अद्दतिगं धम्मचउगं, पमत्तिअपमत्ति धम्मचउ । । ६५ ।।
वृत्ति: xxx सांप्रतं ध्यानद्वारं गुणस्थानेषूच्यते ' अद्दरुद्दाय'त्ति तत्र ध्यानं चतुर्धा आर्त्तध्यानं १, रुद्रध्यानं २, धर्मध्यानं ३, शुक्लध्यानं ४ चेति ।। उक्तं च - [ ध्यानशतके ]
जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं ।
तं होज्ज भावणा वा अणुपेहा वा अहव चिंता ||२||
अन्तर्मुहूर्त्तप्रमाणकालमेकत्र चित्तावस्थानं ध्यानं शेषं चलं तच्चित्तं अथवा भावना अथवा अनुपेक्षा अथवा चिन्तास्मृतिः ।। उक्तं च - [ ध्यानशतके ]
अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुंमि ।
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु || ३।।
अन्तर्मुहूर्तात् परतः चिन्ता भवति अथवा ध्यानान्तरं वा भवति पुनः बहुवस्तुसंक्रमे संतानो भवति ।। उक्तं च - [ ध्यानशतके ]
अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ||४|| अहं रुदं धम्मं सुक्कं झाणाइ तत्थ अंताई । निव्वाणसाहणारं भवकारणमट्ट - रुद्दाई ॥५॥
तत्रार्त्तध्यानं चतुर्धा अमनोज्ञानां वियोगचिन्तनरूपं प्रथमम् । अमनोज्ञा अमनोहराः शब्दादयस्तेषां वियोगचिन्तनम्, कदा एते व्रजन्ति अथवा शत्रुप्रमुखाणां संयोगे तद्वियोगचिन्तनम् कदा एतेषां क्षय इत्यादि अनिष्टसंयोगे आतुरारतिसमुद्भवे तद्वियोगचिन्तने उपयोगस्यैकाग्र्यम् अभिनवोपयोगतारूपंध्यानं प्रथमम् मनोज्ञविषयादिसंप्रयोगचिन्तारूपं द्वितीयम्, कदा कथं वा इष्टाः शब्दादयः- मित्रादयः संदृश्यन्ते एतच्चिन्तारूपैकाग्राऽनन्योपयोगरूपं ध्यानं द्वितीयम् इष्ट वियोगचिन्तासमुद्भवम् । शूलादिरोगप्रकटने तद्विगमचिन्तारूपं तृतीयम्, एते रोगा मे कथं जाताः कथं गच्छन्ति एतच्चिन्तातन्मयत्वरूपं रोगचिन्ताख्यं तृतीयम्, रोगस्याप्यनिष्टत्वेन प्रथमभेदे एवान्तर्भावस्तथापि अनिष्टाः शत्रुप्रमुखा भिन्नक्षेत्रत्वेन रोगाणां च स्वशरीरावगाहात् एकक्षेत्रेणैव भिन्नाभिधानम् । तथा चक्रवर्त्यादिविषयाणाम्-अभिलाषेण
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org