________________
ध्यानशतकम्
१४२ द्रव्यान्तरं याति, गुणाद् गुणान्तरं याति, पर्यायाद्वा पर्यायान्तरं याति तत्प्रथमम्, उक्तं च -
श्रुतचिन्ता वितर्कः स्याद्विचारः सङ्क्रमो मतः । पृथक्त्वं स्यादनेक्त्वं, भवत्येतत्त्रयात्मकम् ।।१।। स्वशुद्धात्मनुभूत्यात्म-भावश्रुतावलम्बनात् । अंतर्जल्पो वितर्कः स्यात् यस्मिंस्तत्सवितर्कजम् ।।२।। अर्थादर्थान्तरे शब्दात्, शब्दान्तरे च सङ्क्रमः । योगायोगान्तरे यत्र, सविचारं तदुच्यते ।।३।। द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् ।
पर्यायादन्यपर्यायं, स पृथक्त्वं भवत्यतः ।।४।। एतच्चाष्टमगुणस्थानादारभ्य एकादशं यावद्भवति । २-यत्पुनर्निश्चलस्यैकद्रव्यस्यैकपर्यायस्य वा एकगुणस्य वा शब्दात् शब्दान्तरमित्यादिसङ्क्रमणरहितं भावश्रुतावलम्बनेन चिन्तनं तद् द्वितीयम्, इदं च द्वादश एव गुणस्थाने भवति, त्रयोदशे तु ध्यानान्तरिका भवेत् । ३-ततो यत्र केवली भगवान् अचिन्त्यात्मशक्त्या बादरकाययोगे स्वभावतः स्थितिं कृत्वा बादरवचनमनोयोगयुगलं सूक्ष्मीकरोति, ततः सूक्ष्मवचनमनसोः स्थितिं कृत्वा बादरकाययोगं सूक्ष्मत्वं प्रापयति, ततः सूक्ष्मकाययोगे पुनः क्षणमात्र स्थितिं कृत्वा सद्यः सूक्ष्मवाञ्चित्तयोः सर्वथा निग्रहं कुरुते, ततः सूक्ष्मकाययोगे क्षणं स्थितिं कृत्वा सूक्ष्मक्रियं चिद्रूपं निजात्मानं स्वयमेवानुभवति, तद्योग्यशुभपरिणामप्रतिपातं च न प्राप्नोति तत्तृतीयम्, एतच्च त्रयोदशगुणस्थानस्यान्ते भवेत् । ४-ततो यत्र सूक्ष्मक्रियाया अपि समुच्छेदो भवति, अक्रियत्वयोग्यपरमविशुद्धपरिणामनिवृत्तिश्च न स्यात् तच्चतुर्थम्, इदं तु चतुर्दशे गुणस्थाने भवति, ततो जीवः सिद्धिं याति ।
एतद्ध्यानं हि अबाधाऽसम्मोहादिलिङ्गगम्यं मोक्षादिफलसाधकं च विज्ञेयम् । एषु च धर्मशुक्लध्यानद्वयमेव निर्जरार्थत्वादाभ्यन्तरतपोरूपं बोध्यम्, आर्त्तरौद्रे तु बन्धहेतुत्वान्न तथेति सुदृष्टिभिस्तयोः सर्वथा परिहार एव कार्योऽन्यथा नन्दमणिकारकण्डरीकादिवन्महादुःखावाप्तिः स्यात् । यदि पुनश्चेतोऽतिचञ्चलत्वात्कुध्यानमुपैति तथापि धीरधीभिः प्रसन्नचन्द्रादिवत्तन्निवारणे एवात्मवीर्योल्लासो विधेयः, सद्ध्यानयोस्तु अव्यवच्छेदेनाभ्यासः कार्यः ।।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org