________________
परिशिष्टम्-१५A खरतरगच्छीयश्रीजिनलाभसूरिगुम्फिते आत्मप्रबोधग्रन्थे तृतीयप्रकाशे
ध्यानस्वरूपम् । तथा ध्यानम् अन्तर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसायम्, तच्चतुर्धा - आर्त्त-रौद्र-धर्म-शुक्लभेदात् । तत्र ऋते-दुःखे पीडिते वा प्राणिनि भवमातम्, तच्चेष्टवियोगा १, ऽनिष्टसंयोग २, रोगचिन्ता ३, ऽग्रशोचविषयम् ४, १-तत्रेष्टानां शब्दरूपरसर्शगन्धलक्षणानां विषयाणां वियोगः 'कदापि मे मा भूदि'त्यादिचिन्तनमिष्टवियोगविषयम्, २-अनिष्टानां शब्दादिविषयाणां संयोगस्याप्रार्थनमनिष्टसंयोगविषयम्, ३-रोगोत्पत्तौ सत्यां बहुचिन्ताकरणं रोगचिन्ताविषयम्, ४-देवत्वचक्रवर्तित्वादिऋद्धिप्रार्थनप्रभृतिकमनागतकालविषयिककार्यशोचनमग्रशोचविषयम् । एतद्धयानं हि शोकाक्रन्दनस्वदेहताऽनादिलक्षणलक्ष्य तिर्यग्गतिगमनकारणं च विज्ञेयम् । अस्य सम्भवस्तु षष्ठगुणस्थानं यावद् बोध्यः ।।
तथा रोदयति दुर्बलान् सत्त्वानिति रुद्रः-प्राणिवधादिपरिणत आत्मा, तस्येदं कर्म रौद्रम्, तच्चतुर्धा १-हिंसानुबन्धि २-मृषानुबन्धि ३-चौर्यानुबन्धि ४-परिग्रहरक्षणानुबन्धि च । १-तत्राद्यं प्राणिषु वधबन्धनदहनाङ्ककरणमारणादिचिन्तनम्, २-द्वितीयं पैशुन्यासभ्यासत्यघातादिवचनचिन्तनम्, ३-तृतीयं च तीव्रकोपलोभाकुलं प्राण्युपघाततत्परं परलोकभयनिरपेक्षं परद्रव्यापहरणचिन्तनम्, ४-चतुर्थं तु सर्वजनाभिशङ्कनपरम्परोपघातपरायणं विषयसुखसाधकं द्रव्यसंरक्षणचिन्तनम्। इदं हि प्राणिवधादिलक्षणलक्ष्य नरकगतिगमनकारणं चावसेयम् । अस्य सम्भवस्तु पञ्चमगुणस्थानं यावद् ज्ञेयः, केचित्त्वस्य चतुर्थं प्रकारं षष्ठं [गुणस्थानं] यावदपि मन्यन्ते, इति ।
तथा धर्मः क्षमादिदशविधस्तस्मादनपेतं धर्म्य धर्मयुक्तमित्यर्थः, तच्चाज्ञाविचयापायाविचयविपाकविचयसंस्थानविचयभेदाच्चतुर्विधम् । १-तत्राद्यं श्रीमतां सर्वज्ञपुरुषाणामाज्ञाया अनुचिन्तनम्, २द्वितीयं रागद्वेषकषायेन्द्रियवशवर्त्तिनां जन्तूनां सांसारिकापायविचिन्तनम्, ३-तृतीयं ज्ञानावरणादिषु शुभाशुभकर्मविपाकसंस्मरणम्, ४-चतुर्थं च भूवलयद्वीपसमुद्रप्रभृतिवस्तूनां संस्थानादिधर्मालोचनात्मकम् । इदं ध्यानं हि जिनोक्ततत्त्वश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं च ज्ञातव्यम्। एतत्सम्भवस्तु चतुर्थात्पञ्चमाद्वा गुणस्थानादारभ्य सप्तमाष्टमे यावदवगन्तव्यः । तत्र चतुर्थे आद्यौ द्वौ भेदौ पञ्चमे तु त्रय इति विशेषः ।
तथा शोधयति अष्टप्रकारं कर्ममलमिति शुक्लम्, तच्च पृथक्त्ववितर्कसप्रविचार-एकत्ववितर्काप्रविचार-सूक्ष्मक्रियाऽप्रतिपाति-समुच्छिन्नक्रियाऽनिवृत्तिभेदाच्चतुर्विधम्। १-तत्र च यस्मिन् भावश्रुतानुसारेण अन्तरङ्गध्वनिरूपो वितर्कोऽर्थादर्थान्तरे, शब्दात् शब्दान्तरे, योगायोगान्तरे च सङ्क्रमते, पुनर्निजशुद्धात्मद्रव्याद्
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org