________________
परिशिष्टम् - १३ पूज्यपादश्रीमन्नेमिसाधुविरचितश्रीप्रतिक्रमणसूत्रपदविवृत्तिगतं
ध्यानस्वरूपम् ।
तथा ध्यातिर्ध्यानं स्थिराध्यवसानं मनएकाग्रावलम्बनमित्यर्थः, कालतोऽन्तर्मुहूर्त्तमात्रं तच्चतुर्विधमार्त्तं रौद्रं धर्म्यं शुक्लमिति । तत्र ऋतं दुःखं तत्र भवमार्तं क्लिष्टमित्यर्थः । हिंसाद्यतिक्रौर्यानुगतो रुद्रः तस्येदं रौद्रम् । धर्मः श्रुतचारित्रलक्षणस्तस्मादनपेतं धर्म्यम् । शोधयत्यष्टप्रकारकर्ममलं शुचं वा क्लमयतीति शुक्लम्, यत उक्तम् - 'कामाणुरञ्जियं अहं रोद्दं हिंसाणुरञ्जियम् ।
धम्माणुरञ्जियं धम्मं सुकज्झाणं निरञ्जणम् ।।१।।
तत्र चार्त्तं चतुर्विधमेकं तावदमनोज्ञशब्दादिविषयसंप्रयोगे सति तद्वियोगकतानो मनोनिरोधस्तदसंप्रयोगानुस्मरणं चेति १ ।
द्वितीयमसद्वेदनीयं तत्प्रतीकारानुकूलमनसस्तथैव वियोगचिन्तनादिरूपम् २,
तृतीयं मनोज्ञविषयसंप्रयोगे तदविप्रयोगैकतानचित्तता ३,
चतुर्थं तु चक्रवर्त्त्यादिसमृद्धिदर्शनान्ममाप्यमुष्य तपसः फलमेवंविधमन्यजन्मनि स्यादिति चित्तनिरोधः ४ । रौद्रमपि चतुर्द्धा, तत्राद्यं गलकूटपाशयन्त्रादिप्राणिवधोपायचिन्तनैकतानश्चित्तनिरोधः १,
द्वितीयं कूटसाक्षित्वादिपरवञ्चनोपायैरनृतानुबन्धि २,
तृतीयं परद्रव्यापहारोपायैः स्तेयानुबन्धि ३,
चतुर्थं धनधान्यादिविषयसंरक्षणैकतानं मनोऽहर्निशमिति ४ ।
धर्म्यमपि चतुर्विधम्, तत्र प्रथममाज्ञाविचयाख्यं सर्वज्ञवचनमाज्ञा तदर्थनिर्णयनरूपम् १, द्वितीयमपायविचयाख्यं दुष्टमनोवाक्काययोगादेर्जन्तोरपायबहुलताचिन्तनरूपम् २,
तृतीयं विपाकविचयाख्यमशुभशुभकर्मविपाकानुचिन्तनरूपम् ३,
चतुर्थं संस्थानविचयाख्यं जीवपुद्गलक्षेत्रसंस्थानविचिन्तनरूपमिति ४ ।
शुक्लमपि चतुर्विधं तद्यथा- प्रथमं पृथक्त्ववितर्कसविचारं पृथक्त्वेन भेदेन विस्तीर्णभावेनान्ये, वितर्कः श्रुतं यस्मिन् तत्तथा सह विचारेण वर्त्तत इति सविचारम्, विचारोऽर्थव्यञ्जनयोगसंक्रमणलक्षणोऽर्थो द्रव्यं व्यञ्जनं शब्दो योगो मनःप्रभृतिरेतद्भेदेन सविचारमर्थाद्व्यञ्जनं व्यञ्जनादर्थं संक्रामयतीति विभाषा १ ।
द्वितीयमेकत्ववितर्कमविचारमेकत्वेनाभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा । इदं च पूर्वगतश्रुतानुसारेणैव भवति, अविचारमसंक्रमं कुर्वतोऽर्थव्यञ्जनयोगान्तरत इति । उत्पादस्थितिभङ्गान्यतमैकपर्याये
Jain Education International 2010_02
-
For Private & Personal Use Only
www.jainelibrary.org