________________
परिशिष्टम् - १२, धर्मसंग्रहगतध्यानस्वरूपम्
१३७
इमौ भेदौ पूर्वविदः, तृतीयं तु मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति सूक्ष्मक्रियमनिवर्ति च, चतुर्थं च शैलेश्यां योगाभावाद् - व्युच्छिन्नक्रियमप्रतिपाति चानुपरतस्वभावम्, तत्र तृतीये छद्मस्थस्य निश्चलमन इव केवलिनो निश्चलकाय एव ध्यानम्, चतुर्थे च तदभावेऽपि कुलालचक्रभ्रमणवत् पूर्वप्रयोगतो जीवोपयोगसद्भावेन भावमनसो भावाद् भवस्थस्य ध्यानम्, ध्यैशब्दोऽपि चिन्तायां कार्यनिरोधेऽयोगित्वे चेत्यनेकार्थात्सर्वत्राविरुद्धः, अस्य १ - चावधा २- सम्मोह ३ - विवेक ४- व्युत्सर्गा लिङ्गानि ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org