________________
परिशिष्टम्-१२ पूज्यपाद-महोपाध्यायश्रीमानविजयगणिकृतधर्मसंग्रहे, अधिकार-३, गा. ९८ वृत्ती
ध्यानस्वरूपम् । ध्यातिर्ध्यानं - स्थिराध्यवसानम्, मनस एकाग्रावलम्बनमित्यर्थः, कालतोऽन्तर्मुहूर्त्तमानम्, तच्चतुर्द्धा - तत्रार्तं . विषयानुरञ्जितम्, रौद्रं - हिंसाद्यनुरञ्जितम्, धर्मात्- क्षान्त्यादिदशविधादनपेतं धर्म्यम् जिनवचनार्थनिर्णयात्मकमित्यर्थः, शोकं क्लमयतीति निरुक्तात् शुक्लं-नीरञ्जनम्।।
तवार्तं चतुर्द्धा - १-अमनोज्ञानां शब्दादिविषयाणां तदाधारवस्तूनां च रासभादीनां सम्प्रयोगे तद्विप्रयोगचिन्तनम् सम्प्रयोगे प्रार्थना च प्रथमम्, २-शूलादिरोगसम्भवे तद्विप्रयोगप्रणिधानम्, तद्विप्रयोगसम्भवे च तदसम्प्रयोगचिन्ता च द्वितीयम्, ३-इष्टानां शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संयोगाभिलाषश्च तृतीयम्, ४-चक्रवर्त्यादिविभवप्रार्थनारूपं निदानं चतुर्थम् । आर्त्तस्य १-विलाप २-साश्रुत्व ३-दैन्यभाषण ४-शीर्षादिकुट्टनरूपाणि ४ लिङ्गानि १।
रौद्रं च १-सत्त्वेषु वध-वेध-बन्धन-दहना-ऽङ्कन-मारणादिप्राणिधानं हिंसानुबन्धि, २-पिशुना-सभ्यासद्भूतघातादिवचनप्रणिधानं मृषानुबन्धि ३-क्रोध-लोभादे: परद्रव्यहरणचित्तं स्तेयानुबन्धि, ४-सर्वाभिशङ्कनपरोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं विषयसंरक्षणं चेति चतुर्विधम्, अस्य १-चोत्सन्नदोष २-बहुलदोष ३-नानाविधदोष ४-मरणदोषा लिङ्गानि २ ।
धर्म्यमपि १-ज्ञान-दर्शन-चारित्र-वैराग्यभावनाभिः कृताभ्यासस्य नयादिभिरतिगहनं न बुध्यते तुच्छमतिना परं 'सर्वज्ञमतं सत्यमेवेति चिन्तनम् आज्ञाविचयः । २-राग-द्वेष-कषाया-श्रवादिक्रियासु प्रवर्त्तमानानामिहपरलोकयोरपायान् ध्यायेदिति अपायविचय: । ३-प्रकृत्यादि४ भेदभिन्नकर्मणः स्वरूपं ध्यायेदिति विपाकविचयः । ४-जिनोक्तषद्रव्याणां लक्षण-संस्थाना-ऽऽसन-विधान-मानादीनां ध्यानं संस्थानविचयश्च इति चतुर्विधम्, तत्र द्रव्याणां लक्षणं - गत्यादि, संस्थानं - लोकाकाशस्येव धर्माधर्मयोः, जीवानां समचतुरस्रादि, अजीवानां परिमण्डलादि, कालस्य मनुष्यक्षेत्राकृति, तथा आसनमाधारः सर्वेषां लोकाकाशम्, विधानानि - भेदाः, मानानि - आत्मीयप्रमाणानीति, विचयश्च - चिन्तनेन परिचयः, अस्य चागमो-१ पदेशा-२ ऽऽज्ञा-३ निसर्गतो-४ यज्जिनोक्तभावश्रद्धानं तल्लिङ्गम् ३।
शुक्लं च - १-पृथक्त्ववितर्कसविचारम्, २-एकत्ववितर्कमविचारम्, ३-सूक्ष्मक्रियाऽनिवर्ति, ४-व्युच्छिन्नक्रियाऽ प्रतिपाति चेति चतुर्विधम् । तत्र पृथक्त्वेन - एकद्रव्याश्रितोत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् तथा, विचारः संक्रमस्तेन सहितं ससंक्रम[सविचार मित्यर्थः, ततः कर्मधारयः, संक्रमश्चार्थव्यञ्जनयोगान्तरतः, तत्रार्थो द्रव्यं तस्माद्व्यञ्जने शब्दे ततश्चार्थे इति, एवं योगेष्वपि त्रिषु संक्रमः। एवमेकत्ववितर्कमविचारं - पर्यायाणामभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा अविचारं चान्यतरस्मिन्नेकयोगे वर्तमानम्, संक्रमाभावात्,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org