________________
परिशिष्टम्-११, लोकप्रकाशगतध्यानस्वरूपम्
१३५ चत्वार्यलम्बनानि स्युः शुक्लध्यानस्य च क्रमात् । कषायाणां क्षयात् क्षान्ति-माईवार्जवमुक्तयः ।। ५१२।। आत्मनोऽनन्तवर्तित्वा-नुप्रेक्षा प्रथमा भवेत् १ । तथा विपरिणामानु-प्रेक्षा प्रोक्ता द्वितीयिका २ ।। ५१३।। अनुप्रेक्षाऽशुभत्वस्या ३-पायानां ४ चेति नामतः। शुक्लध्याने चतस्रोऽनु-प्रेक्षाः प्रेक्षाश्रयैः स्मृताः ।।५१४ ।। अनन्तकालं भ्रमतो जीवस्य भवसागरे । भावनानन्तवर्तित्वा-नुप्रेक्षा परिकीर्तिता ।। ५१५ ।। सा चैवं"एसो अणाइनिहणो संसारे सागरुव्वदुत्तारे । नारयतिरिअनरामर-भवेसु परिहिंडए जीवो ।। ५१६।।" विविधा ये परीणामा वस्तूनां तद्विभावना । भवेद्विपरिणामानु-प्रेक्षा प्रेक्षावतां प्रिया ।। ५१७ ।। तथाहि
"सव्वट्ठाणाई असासयाइं इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई च ।। ५१८ ।।" क्षणभंगुरसंपत्ते-विरूपस्य भवस्य यत् । विभावनाऽशुभत्वानुप्रेक्षा सा परिकीर्तिता ।। ५१९ ।। तथाहि"धि द्धी संसारो जंमि जुआणो परमरूवगब्वियओ । मरिऊण जायइ किमी तत्थेव कलेवरे नियए ।। ५२० ।।" कषायेभ्योऽथाश्रवेभ्यः प्रमादविषयादितः । अपायभावनापाया-नुप्रेक्षा सा प्रकीर्तिता ।। ५२१ ।।
यथा
“कोहो य माणो य अणिग्गहीया माया य लोहो य पवड्डमाणा । चतारि एए कसिणा कसाया सिचंति मूलाई पुणब्भवस्स ।। ५२२ ।।" [दशवैका. ८/४०] इत्यादि ।
इदं चार्थतः प्रायस्तृतीयाङ्गगतम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org