________________
१३४
ध्यानशतकम क्रियोच्छ्वासादिका सूक्ष्मा ध्याने यत्रास्ति कायिकी । निवर्त्तते न यत्सूक्ष्म-क्रियं चैवानिवर्ति तत् ।। ४९६ ।। स्याद्वर्द्धमान एवात्र परिणामः क्षणे क्षणे । न हीयमानस्तदिद-मनिवर्ति प्रकीर्तितम् ।। ४९७ ।। तञ्च निर्वाणगमन-काले केवलिनो भवेत् । रुद्धवाचित्तयोगस्य वपुर्योगार्द्धरोधिनः ।। ४९८ ।।
उक्तं
च
"निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियानियट्टि तइयं तणुकायकिरियस्स ।। ४९९ ।।" [ध्या. श. ८१] समुच्छिन्नाः क्रियाः कायि-क्याद्या योगनिरोधतः । यस्मिन् यच्चाप्रतिपाति तच्छुक्लध्यानमन्तिमम् ।। ५०० ।। इदं त्ववस्थां शैलेशी प्राप्तस्याखिलवेदिनः । निरुद्धाशेषयोगस्य शुक्लं परममीरितं ।। ५०१ ।। सिद्धत्वेऽपि हि सम्प्राप्ते भवत्येतदवस्थितम् । न तु न्यूनाधिकं तेना- प्रतिपातीदमुच्यते ।। ५०२।। इयं हि परमा कोटि: शुक्लध्यानस्य निश्चिता । अतः परं तन्नास्तीति परमं शुक्लमुच्यते ।। ५०३ ।। तथोक्तं"तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।। ५०४ ।।" [ध्या. श. ८२] योगनिरोधपद्धतिस्तु द्रव्यलोकतो ज्ञेयेति । अव्यथं चाप्यसंमोहो विवेकः स्यात्तथा परः । व्युत्सर्गश्च भवेच्छुक्ल-ध्यानचिह्नचतुष्टयम् ।। ५०५ ।। यद्देवाधुपसर्गेभ्यो भयं तत्कथ्यते व्यथा । तदभावोऽव्यथं शुक्ल-ध्यानलक्षणमादिमम् ।। ५०६ ।। देवादिमायाक्लृप्तस्य सूक्ष्मार्थजनितस्य वा । सम्मोहस्येह मौढ्यस्याऽभावोऽसम्मोह इष्यते ।। ५०७ ।। जीवस्य देहात्सर्वेभ्यः संयोगेभ्यश्च शुद्धया । भिन्नत्वभावनं बुद्ध्या स विवेको विवेचनात् ।। ५०८ ।। यनिःसङ्गतयाङ्गस्य परित्यागस्तथोपधेः । स व्युत्सर्गश्चतुर्थं स्या-च्छुक्लध्यानस्य लक्षणम् ।। ५०९ ।। यदाहुः"चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं १ । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २ ।। ५१० ।। देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे ३ । देहोवहिवोसग्गं निस्संगो सव्वहा कुणइ ४ ।। ५११ ।।" [ध्या. श. ९१, ९२]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org