________________
परिशिष्टम्-११, लोकप्रकाशगतध्यानस्वरूपम्
१३३ इति संसारानुप्रेक्षा । शोधयत्यष्टधा कर्म-मलं शुक्लमिति स्मृतम् । शुचं वा क्लमयतीति शुक्लं तच्च चतुर्विधम् ।। ४७९ ।। सविचारं स्यात्पृथक्त्व-वितर्काख्यमिहादिमम् । तथैकत्ववितर्काख्य-मविचारं द्वितीयकम्।। ४८० ।। सूक्ष्मक्रियं चानिवृत्ति शुक्लध्यानं तृतीयकम् । समुच्छिन्नक्रियं चैवा-प्रतिपाति चतुर्थकम् ।। ४८१।। उत्पादादिपर्यवाणामेकद्रव्यविवर्तिनाम् । विस्तारेण पृथग्भेदै-वितर्को यद्विकल्पनम् ।। ४८२ ।। नानानयानुसरणा-त्मकात्पूर्वगतश्रुतात् । यत्र ध्याने तत्पृथक्त्व-वितर्कमिति वर्णितम् ।। ४८३ ।। युग्मम् । अत्र च व्यञ्जनादर्थे तथार्थाद्वयञ्जनेऽसकृत् । विचारोऽस्ति विचरणं सविचारं तदीरितम् ।। ४८४ ।। मनःप्रभृतियोगाना-मेकस्मादपरत्र च । विचारोऽस्ति विचरणं सविचारं ततोप्यदः ।। ४८५ ।। एवं चयत्पृथक्त्ववितर्काढ्यं सविचारं भवेदिह । तत्स्यादुभयधर्माढ्यं शुक्लध्यानं किलादिमम् ।। ४८६ ।। उक्तं च"उप्पायट्ठिइभंगाइपज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।। ४८७ ।। सवियारमत्थवंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स ।। ४८८।।" [ध्या. श. ७७-७८] अनेकेषां पर्यवाणा-मेकद्रव्यावलम्बिनाम् । एकस्यैव वितर्को यः पूर्वगतश्रुताश्रयः ।। ४८९ ।। स च व्यञ्जनरूपोऽर्थ-रूपो वैकतमो भवेत् । यत्रैकत्ववितर्काख्यं तद्ध्यानमिह वर्णितम् ।। ४९० ।। न च स्याद्व्यञ्जनादर्थे तथार्थाद्वयञ्जनेऽपि च । विचारोऽत्र तदेकत्व-वितर्कमविचारी च ।। ४९१।। मन:प्रभृतियोगाना-मप्येकस्मात्परत्र नो । विचारोऽत्र तदेकत्व-वितर्कमविचारि च ।। ४९२ ।। इदं ह्येकत्र पर्याये योगचाञ्चल्यवर्जितम् । चिरमुज्जम्भते दीप्रं निवातगृहदीपवत् ।। ४९३ ।। तथाहु:"जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायट्ठिइभंगा-इयाणमेगंमि पज्जाए ।। ४९४ ।। अवियारमत्थवंजण-जोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबण-मेगत्तवितक्कमवियारं ।। ४९५।।" [ध्या. श. ७९-८०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org