________________
१३९
परिशिष्टम्-१३, प्रतिक्रमणसूत्रपदविवृत्तिगतध्यानस्वरूपम् निर्वातगृहप्रदीपवत् सुनिष्प्रकम्पचितं केवलज्ञानोत्पादकं ध्यानमिति २ ।
तृतीयं सूक्ष्मक्रियमनिवृत्ति तत्र सूक्ष्मा तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया तत्तथा निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानशुभपरिणामान निवर्त्यनिवर्ति तञ्च मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति ३ ।।
चतुर्थं व्युपरतक्रियमनिवर्ति, व्युपरता - व्यवच्छिन्ना योगाभावात् क्रिया यत्र तत्तथा अनिवर्ति अप्रतिपाति तञ्च शैलेशवत् निष्प्रकम्पस्य शैलेशावस्थायां भवतीति ४ ।।
अत्र च ध्यानचतुष्टयेऽप्यश्रद्धानादिनाऽतिचारसम्भव इति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org