________________
परिशिष्टम्-११, लोकप्रकाशगतध्यानस्वरूपम्
तथाहु:“देविंदचक्कवट्टि-त्तणाइ गुणरिद्धिपत्थणामइयं । । अहमं नियाणचिंत्तण-मण्णाणुगयमचंत्तं ति" ।। ४४३।। [ध्या. श. ९] क्रन्दनं शोचनं चाश्रु-मोचनं परिदेवनम् । आर्तध्यानस्य चत्वारि लक्षणान्याहुरार्हताः ।। ४४४ ।। तत्र-क्रन्दनं स्याद्विरवणं शोचनं दीनता मता । स्पष्टं तृतीयं तक्लिष्ट-वाक्याढ्यं परिदेवनम् ।। ४४५।।
आत्मवर्तित्वादलक्ष्यमप्येभिर्लक्षणैरदः । लक्ष्यते इत्यमून्याहु-र्लक्षणान्यस्य धीधनाः ।। ४४६ ।। हिंसामृषाद्यतिक्रूरा-ध्यवसायात्मकं भवेत् । परप्रद्वेषजं रौद्र-ध्यानं तञ्च चतुर्विधम् ।। ४४७ ।। हिंसा १ मृषा २ स्तैन्य ३ संर-क्षणा ४ नुबन्धिभेदतः । तत्राद्यं प्राणीनां दाह-वधबन्धादिचिन्तनम् ।। ४४८ ।। पैशून्यासभ्यवितथ-वचसा परिचिन्तनम् । अन्येषां द्रोहबुद्ध्या य-न्मृषावादानुबन्धि तत् ।। ४४९ ।। तथाहु:“पिसुणासब्भासब्भूअ-भूयघायाइवयणपणिहाणं ।। मायाविणोऽइसंधण-परस्स पच्छन्नपावस्स ।। ४५० ।।" [ध्या. श. २०] परद्रव्यापहरण-चिन्तनं तीव्ररोषतः । तन्नायकोपघातायै-र्भवेत्स्तैन्यानुबन्धि तत् ।। ४५१ ।। स्वीयस्वरक्षणार्थं य-च्छङ्कमानस्य सर्वतः । परोपघाताभिप्रायः संरक्षणानुबन्धि तत् ।। ४५२ ।।
तथोक्तं
"सद्दाइविसयसाहण-धणसंरक्खणपरायणमणिटुं । सव्वाभिसंकणपरो-वघायकलुसाउलं चित्तं ।। ४५३।।" [ध्या. श. २२] हिंसादिषु चतुर्वेषु यदेका सेवनं मुहुः । रौद्रध्यानस्य तद् ज्ञेयं प्रथमं लक्षणं बुधैः ।। ४५४ ।। चतुर्वेषु प्रवृत्तिस्तु द्वितीयं तस्य लक्षणम् । तथा कुशास्रसंस्कारा-त्मकादज्ञानदोषतः ।। ४५५ ।। हिंसादिकेष्वधर्मेषु धर्मबुद्ध्या प्रवर्त्तनम् । तृतीयं लक्षणं ज्ञेयं चतुर्थं तु भवेदिदम् ।। ४५६ ।। मरणान्तेऽपि सम्प्राप्ते हिंसादेरनिवर्तनम् । महासंक्लिष्टमनसः कालसौकरिकादिवत् ।। ४५७ ।। श्रुतचारित्रधर्माभ्या-मनपेतं तु यद्भवेत् । तद्धन॑ ध्यानमुक्तं त-चतुर्भेदं जिनोत्तमैः ।। ४५८ ।। आज्ञाविचयसंज्ञं स्यात् श्रुतार्थचिन्तनात्मकम् । अपायविचयं त्वाश्र-वादिभ्योऽपायचिन्तनम् ।। ४५९।। पुण्यपापफलचिन्ता-विपाकविचयाभिधम् । संस्थानविचयं तु स्या-ल्लोकाकृत्यादिचिन्तनम् ।। ४६० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org