________________
१३०
ध्यानशतकम्
तथा:“एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालिअवक्कस्स भासओ वाइगं झाणं ।। ४२३।।" मनोवच:काययोगा-नयन्नेकाग्रतां मुनिः । वर्त्तते त्रिविधे ध्याने गणयन् भङ्गिकश्रुतम् ।। ४२४ ।। त्रैधेष्वपीति योगेषु ध्यानत्वे किल निश्चिते । मुख्येनैकतमेनैव व्यपदेशः स्फुटो भवेत् ।। ४२५ ।। यथा सत्स्वपि दोषेषु वातपित्तकफात्मसु । यदा भवेदुत्कटो य: कुपितः स तदोच्यते ।। ४२६ ।। यथा गच्छन् राजमार्गे नृपतिस्सपरिच्छदः । गच्छत्ययं नृप इति मुख्यत्वाट्यपदिश्यते ।। ४२७ ।। तथा चित्तस्य मुख्यत्वा-द्ध्यानं चित्तोत्थमुच्यते । वाक्काययोस्त्वमुख्यत्वा-त्तद्ध्यानं नोच्यते पृथक् ।। ४२८ ।। ज्ञातविश्वस्वभावस्य निस्सङ्गस्य महात्मनः । निर्ममस्य विरक्तस्य भवेद्ध्याने स्थिरं मनः ।। ४२९ ।। नित्यं यतीनां युवती-पशुक्लीबादिवर्जितम् । विजनं शस्यते स्थानं ध्यानकाले विशेषतः ।। ४३० ।। महात्मनां हि शमिनां ध्याननिश्चलचेतसां । न विशेषो जनाकीर्णे पुरे वा निर्जने वने ।। ४३१ ।। ततो वाक्कायमनसां समाधिर्यत्र जायते । भूतोपघातहीनोऽसौ देशः स्याद् ध्यायतो मुनेः ।। ४३२ ।। यत्र योगसमाधान-मुत्तमं लभते मुनिः । स ध्यानकालो दिवस-निशादिनियमस्तु न ।। ४३३ ।। ध्यानस्थैर्य प्रजायेतासनाद्यवस्थया यया । स्थितो निषण्णः सुप्तो वा ध्यायेत्तस्यामवस्थितः ।। ४३४ ।। यद्देशकालचेष्टास्व-वस्थासु निखिलासु च । मुनीश्वराः शिवं प्राप्ताः क्षपिताशेषकल्मषाः ।। ४३५ ।। तद्देशकालचेष्टानां ध्याने कोऽपि न निश्चयः । यथा योगसमाधिः स्या-द्यतितव्यं तथा बुधैः ।। ४३६ ।। अत्रातरौद्रे दुर्ध्याने स्मृते दुर्गतिदायिनी । शुभध्याने पुनर्धर्म्य-शुक्ले स्वःशिवदायिनी ।। ४३७ ।। एषां स्वरूपं यथातत्रातस्य पीडितस्य रोगा किञ्चनतादिभिः । लोभादिभिर्वा यद्ध्यानं तदातँ स्याञ्चतुर्विधम् ।। ४३८ ।। शब्दादीनामनिष्टानां सम्बन्धे सति देहिनः । ध्यानं यत्तद्वियोगस्य तदातँ प्रथमं भवेत् ।। ४३९ ।। अभीष्टानां च लब्धानां शब्दादीनां निरन्तरम् । अविच्छेदस्य या चिन्ता तद् द्वितीयं प्रकीर्तितम् ।। ४४०।। आतङ्के सति तस्योप-शान्तेश्चिन्ता तृतीयकम् । भुक्तानां कामभोगानां स्मरणे स्यात्तुरीयकम् ।। ४४१।। अन्ये त्वाहुश्चक्रिविष्णु-सुरशक्रादिसम्पदाम् । आशंसया निदानस्य चिन्तने तत्तुरीयकम् ।। ४४२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org