________________
परिशिष्टम्-११ पूज्यपाद-उपाध्यायश्रीविनयविजयगणिविरचिते
लोकप्रकाशे सर्ग-३० मध्ये ध्यानस्वरूपम् । त्यक्तातरौद्रध्यानास्ते धर्मध्यानसमाहिताः । ध्यानं ध्यातुं प्रवर्त्तन्ते शुक्लं कर्मेन्धनानलम् ।। ४१० ।। ध्यानं नाम मनःस्थैर्य यावदन्तर्मुहूर्त्तकम् । आर्त रौद्रं तथा धर्म्य शुक्लं चेति चतुर्विधम् ।। ४११ ।। तथोक्तं स्थानाङ्गवृत्ती"अंतोमुत्तमेत्तं चित्तावत्याणमेगवत्थुमि ।
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।। ४१२ ।।" [ध्या. श. ३] योगास्तत्रौदारिकादि-देहसंयोगसम्भवाः । आत्मवीर्यपरीणाम-विशेषाः कथितास्त्रिधा ।। ४१३ ।। इत्यावश्यकहारिभद्रयां ध्यानशतकवृत्ती, मुहूर्ताद्यत्परं चित्ता-वस्थानमेकवस्तुनि । सा चिन्तेत्युच्यते प्राज्ञै-र्यद्वा ध्यानान्तरं भवेत् ।। ४१४ ।। तथोक्तं“अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज बहुवत्थु-संकमे झाणसंताणो ।। ४१५ ।।" [ध्या. श. ४]
तत्रेह न ध्यानादन्यद्ध्यानान्तरं गृह्यते, किं तर्हि ? भावनाऽनुप्रेक्षात्मकं चेत इति। बहूनि च तानि वस्तूनि च बहुवस्तूनि आत्मगतपरगतानि मन:प्रभृतीनि, तेषु संक्रमः सञ्चरणमिति हारिभद्र्याम् ।।
गाढमालम्बने लग्नं चित्तं ध्यानं निरेजनम् । यत्तु चित्तं चलं मूढ-मव्यक्तं तन्मनो मतम् ।। ४१६ ।। अव्यक्तानां मूर्छितानां मत्तानां स्वापमीयुषाम् । सद्योजाताभकाणां चा-ऽव्यक्तं मूढं भवेन्मनः ।। ४१७ ।। एवं ध्यानं ध्रुवं चित्तं चित्तं ध्यानं न निश्चयात् । खदिरो वृक्ष एव स्यात् स चान्यो वा तरुः पुनः ।। ४१८ ।। यन्मानसः परीणाम: केवलो ध्यानमिष्यत । तन्मिथ्या यज्जिनैस्त्रैधे-ष्वपि योगेषु तत्स्मृतम् ।। ४१९ ।। नन्वङ्गमनसोः स्थैर्या-पादनात्सम्भवेद् द्विधा । ध्यानं कथं तृतीयं तु वाचिकं सम्भवेदिह ।। ४२० ।। अत्रोच्यतेयथा मानसिकं ध्यान-मेकाग्रं निश्चलं मनः । यथा च कायिकं ध्यानं स्थिरः कायो निरेजनः ।। ४२१ ।। तथा यतनया भाषां भाषमाणस्य शोभनाम् । दुष्टां वर्जयतो ध्यानं वाचिकं कथितं जिनैः ।। ४२२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org