________________
परिशिष्टम्-९, ध्यानदीपिका
१२५ शुक्लध्यानस्वामी शुक्लं चतुर्विधं ध्यानं तत्राद्ये द्वे च शुक्लके । छद्मस्थयोगिनां ज्ञेये द्वे चान्त्ये सर्ववेदिनाम् ।। १९४ ।। आलम्बनम् श्रुतज्ञानार्थसम्बन्धात् श्रुतालम्बनपूर्वके । पूर्वेऽपरे जिनेन्द्रस्य निःशेषालम्बनच्युतेः ।। १९५ ।। आद्ये शुक्लध्याने सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् ।। १९६ ।। चरमे शुक्लध्याने सूक्ष्मक्रियाप्रतिपाति तृतीयं सर्वेवेदिनाम् । समुच्छिन्नक्रियं ध्यानं तुर्यमायैः प्रवेदितम् ।। १९७ ।। तत्र त्रियोगिनामाद्यं द्वितीयं त्वेकयोगिनाम् । सर्वज्ञः क्षीणकर्मासौ केवलज्ञानभास्करः ।। १९८ ।। कालम् अन्तर्मुहूर्तशेषायुस्तृतीयं ध्यातुमर्हति । शैलेशीकर्मतो ध्यानं समुच्छिन्नक्रियं भवेत् ।। १९९ ।। स्वामी अयोगयोगिनां तुर्यं विज्ञेयं परमात्मनाम् । तेन ते निर्मला जाताः निष्कलङ्का निरामयाः ।। २०० ।। उपसंहारः जन्मजानेकदुर्वारबन्धनव्यसनोज्झिताः । सिद्धा बुद्धाश्च मुक्ताश्च ये तेभ्यो मे नमो नमः ।। २०१ ।। शाश्वतानन्दमुक्तेभ्यो रुपातीतेभ्य एव च । त्रैलोक्यमस्तकस्थेभ्य: सिद्धेभ्यो मे नमो नमः ।। २०२ ।। शुक्लाभावः अधुना शुक्लध्यानं यत्तञ्चतुर्धापि नास्ति साधूनाम् । पूर्विककेवलिविरहात्तदगम्यं तेन ते तदगुः [जगदुः] ।। २०३।। ध्यानदीपिका चन्द्रार्कदीपालिमणिप्रभाभिः किं यस्य चित्तेऽस्ति तमोऽस्तबोधम् । तदन्तकी क्रियतां स्वचित्ते ज्ञान्यङ्गिनः ध्यानसुदीपिकेयम् ।। २०४ ।।
इति पूज्यपाद-उपाध्यायश्रीसकलचन्द्रगणिकृता ध्यानदीपिका समाप्ता ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org