SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२४ शुभध्यानी रम्यरामादिरूपादीन् कामार्थानपि चिन्तयन् । रूद्धस्वाक्षार्थरागादिः शुभध्यानी ह्यसावपि ।। १८२ ।। निर्दोषविषयसेवनम् यद्यात्तानीन्द्रियाण्यङ्गिन् त्वया तद्विषयान् विना । तानि तिष्ठन्ति नो त्वं तत् निर्दोषान् विषयान् भज । ।१८३ ।। सिद्धिसाधनम् विना खान्यत्र नो जीवो विना जीवं न खान्यपि । पञ्चाक्षविषयैः पूत्यैर्विना सिद्धिर्न साध्यते ।। १८४ ।। विरागी ध्यानशतकम् अन्तःकरणनिःसङ्गी बहिः सङ्गीव चेष्टते । छायावत् निर्विकल्पोऽसौ कर्मणा नोपलिप्यते ।। १८५ ।। 'अमना भव' बहिः संसारदेहाक्षस्थित्या गत्या विनाङ्गिनः । न किञ्चिञ्चलतीति त्वं मत्वा ताममना भज ।। १८६ ।। ध्यानदशा आत्मन ! सिद्धात्मलग्नोऽहं यदा स्यां भोस्तदा त्वया । न गन्तव्यमितीच्छामि गन्तव्यं चेतदैव वा ।। १८७ ।। फलम् इति ते ध्यानसमीपे याचे मे मा भवन्तु व्याधिरुजः । अन्ते मरणसमाधिः शुभगतिर्भवतु परलोके ।। १८८ ।। लेश्या पीता पद्मा च शुक्ला च लेश्यात्रयमिति स्मृतम् । धर्मस्य क्रमशः शुद्धं कैश्चिच्छुक्लैव केवला ।। १८९ ।। स्थिति-भाव- लेश्याः धर्मध्यानस्य विज्ञेया स्थितिश्चान्तर्मुहूर्तिकी । क्षायोपशमिको भावो लेश्या शुक्लैव केवला ।। १९० ।। लिङ्गानि अर्हदादिगुणीशानां नतिं भक्तिं स्तुतिं स्मृतिम् । धर्मानुष्ठानदानादि कुर्वन् धर्मीति लिङ्गतः ।। १९१ ।। अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ।। १९२ ।। फलम् त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः ।। १९३ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy