________________
परिशिष्टम्-९, ध्यानदीपिका
१२३ यथा आलम्बनं तथा फलम् वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तु समालम्ब्य रागी स्यात्क्षोभणादिकृत् ।। १६५ ।। दृष्टान्तः येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ।। १६६ ।। असद्ध्यानानि न सेव्यानि नासद्ध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् ।। १६७ ।। सर्वसिद्धिसिद्धिः सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम् । सन्दिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चितः ।। १६८।। रूपातीतध्यानम् लोकाग्रस्थं परात्मानममूर्तं क्लेशवर्जितम् । चिदानन्दमयं सिद्धमनन्तानन्दगं स्मरेत् ।। १६९ ।। यस्यात्र ध्यानमात्रेण क्षीयन्ते जन्ममृत्यवः । उत्पद्यते च विज्ञानं स ध्येयो नित्यमात्मना ।। १७० ।। तत्स्वरूपाहितं स्वान्तं तद्गुणग्रामरञ्जितम् । योजयत्यात्मनात्मानं स्वस्मिन् तद्रूपसिद्धये ।। १७१ ।। इत्यजस्रं स्मरन् योगी तत्स्वरूपावलम्बितः । तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितः ।। १७२ ।। अनन्यशरणीभूय स तस्मिन् लीयते तथा । ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ।। १७३ ।। यः परात्मा परं सोऽहं योऽहं स परमेश्वरः । मदन्यो न मयोपास्य, मदन्येन च नाप्यहम् ।। १७४ ।। मनसः शिक्षा अन्तःकरणाकर्णय स्वात्माधीशं विहाय मान्यत्वम् । ध्याने वस्त्ववतारय यतस्तदन्यञ्च बन्धकरम् ।। १७५ ।। स्वबोधादपरं किञ्चिन्न स्वान्ते क्रियते परम् । कुर्यात् कार्यवशात् किञ्चित् वाग्कायाभ्यामनादृतः ।। १७६।। धर्मध्यानोपसंहारः एवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्वं विधते शुद्धिमात्मनः ।। १७७ ।। अनुप्रेक्षा ध्यानोपरतोऽपि मुनिर्विविधानित्यादिभावचिन्तनतः। योऽनुप्रेक्षां धत्ते इति शश्वत् सोऽतुलो ध्यानी ।। १७८ ।। अनुप्रेक्षाऽत्र धर्मस्य स्याद्यतो हि निबन्धनम् । चित्तं ततः स्थिरीकृत्य तासां रूपं निरूपयेत् ।। १७९।। हितवाक्यम् प्राणघात्युपसर्गेऽपि धन्यैर्ध्यानं न चालितम् । निर्बाधेष्वपि योगेषु सत्सु धत्से न किं स्थिरम् ।। १८० ।। स्वाक्षार्थस्य रतिं च दोषं विहाय यत्किञ्चन वस्तुजातम् । ..... मनोध सर्वं भवतीह तद्धि ।। १८१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org