________________
१२२
ध्यानशतकम् मारुतीधारणा ततस्रिभुवनाभोगं पूरयन्तं समीरणम् । चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् ।। १४८ ।। तञ्च भस्मरजस्तेन शीघ्रमुद्भूय वायुना । दृढाभ्यासः प्रशान्तिं तमानयेदिति मारुती ।। १४९ ।। वारुणीधारणा स्मरेद्वर्षत्सुधासारैः घनमालाकुलं नभः । ततोऽर्धेन्दुसमकान्तं मण्डलं वारुणाङ्कितम् ।। १५० ।। नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः । तद्रजः कायसम्भूतं क्षालयेदिति वारुणी ।। १५१ ।। तत्त्वभूधारणा सप्तघातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ।। १५२ ।। ततः सिंहासनासीनं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ।। १५३ ।। स्वाङ्गगर्भ निराकारं स्वं स्मरेदिति तत्त्वभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ।। १५४ ।। पिण्डस्थध्यानफलम् अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्यामन्त्रमण्डलशक्तयः ।। १५५ ।। शाकिन्यः क्षुद्रयोगिन्यः पिशाचा पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः ।। १५६ ।। दुष्टा करटिन: सिंहा शलभा पन्नगा अपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ।। १५७ ।। पदस्थध्यानम् पुण्यमन्त्रपदान्येव तथागमपदानि वा । ध्यायन्ते यद्बुधैर्नित्यं तत्पदस्थं मतं बुधैः ।। १५८ ।। ओमर्हादिकमन्त्राणां मायाबीजजुषां ततिम् । परमेष्ठ्यादिपदव्रातं पदस्थध्यानगः स्मरेत् ।। १५९ ।। रूपस्थध्यानम् सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते ।। १६० ।। रागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तकान्तं मनोहारि सर्वलक्षणलक्षितम् ।। १६१ ।। जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदशा ध्यायन रुपस्थध्यानवान्भवेत् ।। १६२ ।। ध्यानफलम् ध्यानी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ।। १६३ ।। तन्मयता सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ।। १६४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org