________________
१२१
'परिशिष्टम्-९, ध्यानदीपिका ध्याता ज्ञानवैराग्यसम्पन्नः संवृतात्मा स्थिराशयः । क्षीणोपशान्तमोहश्चाऽप्रमादी ध्यानकारकः ।। १३० ।। शुद्धसम्यक्त्वदर्शी च श्रुतज्ञानोपयोगवान् । दृढसंहननो धीरः सर्वषट्जीवपालकः ।। १३१ ।। सत्यवाक् दत्तभोजी च ब्रह्मचारी पवित्रहत् । स्त्रीकामचेष्टयास्पृष्टो निःसङ्गो वृद्धसेवकः ।। १३२ ।। निराशो निष्कषायी च जिताक्षो निष्परिग्रही । निर्मम: समतालीनो ध्याता स्यात् शुद्धमानसः ।। १३३ ।। स्वामी अप्रमत्तप्रमत्ताख्यौ मुख्यतः स्वामिनौ मतौ । चत्वारः स्वामिनः कैश्चित् उक्ता धर्मस्य सूरिभिः ।। १३४।।
ध्येयः
पिण्डस्थं च पदस्थं च रुपस्थं रूपवर्जितम् । इत्यन्यञ्चापि सद्ध्यानं ते ध्यायन्ति चतुर्विधम् ।। १३५ ।। पिण्डस्थे पञ्चधारणा पिण्डस्थे पञ्च विज्ञेया धारणा तत्र पार्थिवी । आग्नेयी मारुती चापि वारुणी तत्त्वभूस्तथा ।। १३६ ।।
पार्थिवीधारणा
तिर्यग्लोकसमं ध्यायेत् क्षीराब्धिं तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बुद्वीपसमं स्मरेत् ।। १३७ ।। तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ।। १३८ ।। श्वेतसिंहासनासीनं कर्मनिर्मलनोद्यतम् । आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ।। १३९ ।। आग्नेयीधारणा ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले । स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ।। १४० ।। प्रतिपत्रसमासीनस्वरमालाविराजितम् । कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ।। १४१ ।। रेफरुद्धं कलाबिन्दुलाञ्छितशून्यमक्षरम् । लसबिन्दुछटाकोटीकान्तिव्याप्तहरिन्मुखम् ।। १४२ ।। [अर्ह] तस्य रेफाद्विनिर्यान्तीं शनैर्धूमशिखां स्मरेत् । स्फुलिङ्गसन्ततिं पश्चात् ज्वालालीं तदनन्तरम् ।। १४३।। तेन ज्वालाकलापेन वर्धमानेन सन्ततम् । दहत्यविरतं धीर: पुण्डरीकं हृदि स्थितम् ।। १४४ ।। तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थप्रबलानलः ।। १४५ ।। ततो देहाद् बहिर्ध्यायेत् त्रिकोणं वह्निमण्डलम् । ज्वलत्स्वस्तिकसंयुक्तं वह्निबीजसमन्वितम् ।। १४६ ।। देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं बहिः । कृत्वाशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ।। १४७ ।।
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org