________________
(१२०
कौल:
यत्र काले समाधानं योगानां योगिनो भवेत् । ध्यानकालः स विज्ञेयो दिनादेर्नियमो ऽस्ति न ।। ११५ ।।
ध्यानशतकम्
आसनम्
पद्मासनादिना येनासनेनैव सुखी भवेत् । ध्यानं तेनासनेन स्यात् ध्यानिनां ध्यानसिद्धये ।। ११६ ।। दिक्
पूर्वाभिमुखो ध्यानी चोत्तरामिमुखोऽथवा । प्रसन्नवदनो धीरो ध्यानकाले प्रशस्यते ।। ११७ ।।
आलम्बनम्
आलम्बनानि धर्मस्य वाचनाप्रच्छनादिकः । स्वाध्यायः पञ्चधा ज्ञेयो धर्मानुष्ठानसेवया ।। ११८ ।।
क्रमः
ध्यानानुक्रम उक्तः केवलिनां चित्तयोगरोधादि । भवकाले त्वितरेषां यथा समाधिं च विज्ञेयः ।। ११९ ।। धर्मध्यानभेदाः
आज्ञापायविपाकस्य क्रमशः संस्थितेस्तथा । विचयाय पृथग् ज्ञेयं धर्मध्यानं चतुर्विधम् ।। १२० ।। आज्ञाविचयः
स्वसिद्धान्तप्रसिद्धं यत् वस्तुतत्त्वं विचार्यते । सर्वज्ञाज्ञानुसारेण तदाज्ञाविचयो मतः ।। १२१ । आज्ञा यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थंस्तदाज्ञाध्यानमुच्यते ।। १२२ ।। अपायविचयः
अपायविचयं ज्ञेयं ध्यानं तच्च विचक्षणैः । अपायः कर्मणां यत्र सोऽपायः प्रोच्यते बुधैः ।। १२३ ।। रागद्वेषकषायाश्रवक्रियावर्तमानजीवानाम् । इह-परलोकापायानपायभीरुः स्मरेत् साधुः ।। १२४ ।।
विपाकविचयः
चतुर्धा कर्मबन्धेन शुभेनाप्यशुभेन वा । विपाकः कर्मणां जीवैर्भुज्यमानो विचिन्त्यते ।। १२५ ।। प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः ।। १२६ ।। या सम्पदार्हतो या च विपदा नारकात्मनः । एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः ।। १२७ ।। संस्थानविचयः
अनन्तानन्तमाकाशं सर्वतः सुप्रतिष्ठितम् । तन्मध्ये यः स्थितो लोको नित्यो दृष्टो जिनोत्तमैः ।। १२८ ।। स्थित्युत्पत्तिव्ययोपेतैः पदार्थैश्चेतनेतरैः । सम्पूर्णोऽनादिसंसिद्धः स्थितं यत्र जगत्त्रयम् ।। १२९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org