________________
परिशिष्टम्-९, ध्यानदीपिका पूरकैः कुम्भकैश्चैव रेचकैः किं प्रयोजनम् । विमृश्येति तदादेयं यन्मुक्तेर्बीजमग्रिमम् ।। १०१ ।।
प्रत्याहारः
इन्द्रियार्थनिरोधो यः स प्रत्याहार उच्यते । प्रत्याहारं विधायाथ धारणा क्रियते बुधैः ।। १०२ ।। धारणा ध्येयवस्तुनि संलीनं यन्मनो विधीयते । परब्रह्मात्मरूपे वा गुणिनां सद्गुणेष्वपि ।। १०३ ।। अर्हदाद्यङ्गरूपे वा, भाले नेत्रे मुखे तथा । लये लग्नं मनो यस्य, धारणा तस्य सम्मता ।। १०४ ।। शुभध्यानविचारः ध्यानं चतुर्विधं ज्ञेयं धर्मं शुक्लं च नामतः । प्रत्येकं तच्छ्रयेत् योगी विरक्त: पापयोगतः ।। १०५ ।। धर्मध्यानसाधनानि भावनादीनि धर्मस्य स्थानाद्यासनकानि वा। कालश्चालम्बनादीनि ज्ञातव्यानि मनीषिभिः ।। १०६ ।।
भावना
चतस्रो भावना भव्या उक्ता ध्यानस्य सूरिभिः । मैत्र्यादयश्चिरं चित्ते विधेया धर्मसिद्धये ।। १०७ ।। मैत्रीभावना प्राणभूतेषु सर्वेषु सुखदुःखस्थितेषु च । वैरिमित्रेषु जीवेषु मैत्री स्याद्धितधीः सताम् ।। १०८ ।। करुणाभावना वधबन्धनरुद्धेषु निस्त्रिंशः पीडितेषु च । जीवितं याचमानेषु दयाधी: करुणा मता ।। १०९ ।। प्रमोदभावना जिनधर्मजुषां ज्ञानचक्षुषां च तपस्विनाम् । निःकषायजिताक्षाणां गुणे मोदः प्रमोदता ।। ११० ।। माध्यस्थ्यभावना देवगुर्वागमाचार-निन्दकेष्वात्मशंसिषु । पापिष्ठेषु च माध्यस्थ्यं सोपेक्षा च प्रकीर्तिता ।। १११ ।। भावनास्वासु संलीनं विधायाध्यात्मिकं स्थिरम् । कर्मपुद्गलजीवानां स्वरूपं च विचिन्तयेत् ।। ११२ ।। भावनाकार्यम् नित्यमाभिर्यदा विश्वं भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन्नश्चरत्यत्रैव मुक्तवत् ।। ११३ ।। स्थानम् सिद्धतीर्थादिके क्षेत्रे शुभस्थाने निरञ्जने । मनःप्रीतिप्रदे देशे ध्यानसिद्धिर्भवेन्मुनेः ।। ११४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org