________________
११८
ध्यानशतकम्
असत्यानन्दम् विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य हिंसकम् । प्रपात्य व्यसने लोकं भोक्ष्येऽहं वाञ्छितं सुखम् ।। ८७ ।। असत्यकल्पनाकोटिकश्मलीकृतमानसः । चेष्टते यत् जनस्तद्धि मृषानन्दं हि रौद्रकम् ।। ८८ ।। चौर्यानन्दम् चौर्यार्थं जीवघातादि चिन्तार्तं यस्य मानसम् । कृत्वा तञ्चिन्तितार्थं यत् हृष्टं तञ्चौर्यमुदितम् ।। ८९ ।। द्विपदचतुष्पदसारधनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि मे स्वाधीनं चौर्यसामर्थ्यात् ।। ९०।। चौर्यं बहुप्रकारं ग्रामाध्वगदेशघातकरणेच्छा । सततमिति चौर्यरौद्रं भवत्यवश्यं श्वभ्रगमनम् ।। ९१ ।। संरक्षणानुबन्धि बह्वारम्भपरिग्रहसनामैर्जन्तुघाततो रक्षाम् । कुर्वन् परिग्रहादे रक्षारौद्रीति विज्ञेयम् ।। ९२ ।। शस्त्रैररीणां हि शिरांसि भित्त्वा दग्ध्वा पुरग्रामगृहारिदेशान् । प्राप्स्येऽहमैश्वर्यमनन्यसाध्यं स्वगृह्णतां वाथ तथा करिष्ये ।। ९३ ।। लेश्या कापोतनीलकाला अतिसंक्लिष्टा भवन्ति दुर्लेश्याः । रौद्रध्यानपरस्य तु नरस्य नरकातिथेर्मोहात् ।। ९४ ।। लक्षणानि क्रूरता चित्तकाठिन्यं वञ्चकत्वं कुदण्डता । निस्तूंशत्वं च लिङ्गानि रौद्रस्योक्तानि सूरिभिः ।। ९५ ।। उपसंहारः क्वचित्क्वचिदमी भावाः प्रवर्त्तन्ते पुनरपि । प्राग्कर्मगौरवाञ्चित्रं प्राय: संसारहेतवः ।। ९६ ।। शमाम्भोधिप्रवेशम् प्रविश्याथ शमाम्भोधिं योगाष्टाङ्गानि चिन्तयेत् । दुष्टानुष्ठानतो भग्नो मनःशुद्धिकृते मुनिः ।। ९७ ।। अष्टाङ्गयोगः यमनियमासनबन्धं प्राणायामेन्द्रियार्थसंवरणम् । ध्यानं ध्येयसमाधि योगाष्टाङ्गानि चेति भज ।। ९८ ।। प्राणायामी सप्तदशभेदसंयमधरो यमी शौचतादियुतनियमी । पद्मासनादिसुस्थः प्राणायामप्रयासी च ।। ९९ ।। प्राणायामनिषेधः किमनेन प्रपञ्चेन प्राणायामेन चिन्मताम् । कायहत्क्लेशकारिणा नादृतस्तेन सूरिभिः ।। १०० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org