________________
ध्यानशतकम
११६ ध्यानायोग्याः खरस्यापि हि किं शृङ्ग खपुष्पमथवा भवेत् । तथाङ्गनादिसक्तानां नराणां क्व स्थिरं मनः ।। ५७ ।। तथा पाखण्डीमुख्यानां नास्तिकानां कुचक्षुषाम् । तेषां ध्यानं न शुद्धं यद्वस्तुतत्त्वाज्ञता यतः ।। ५८ ।। सदाचाराच्च भ्रष्टानां कुर्वतां लोकवञ्चनम् । बिभ्रतां साधुलिङ्गं च तेषां ध्यानं न शुद्धिदम् ।। ५९ ।। अध्याता नित्यं विभ्रान्तचित्तानां पश्यत्वेषां कुचेष्टितम् । संसारार्थं यतित्वेऽपि तेषां यात्यफला जनिः ।। ६० ।। ध्यानं धर्ममूलम् ध्यानमेवात्मधर्मस्य मूलं मोक्षस्य साधनम् । असद्ध्यानं ततो हेयं यत् कुतीर्थिकदर्शितम् ।। ६१ ।। दुर्ध्यानम् कैश्चिन्मूढात्मभिानमन्यैः स्वपरवञ्चकैः । सपापं तत्प्रणीतं च दुःखदुर्गतिदायकम् ।। ६२ ।। धनार्थं स्त्रियादिवश्यार्थं, जन्तुघातादिकारकम् । शत्रूच्चाटादिकृद् ध्यानं क्रियते दुष्टबुद्धिभिः ।। ६३ ।। ध्यानव्याख्या दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् । ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः ।। ६४ ।। ध्यानस्वामि-काले छद्मस्थानां तु यद्ध्यानं भवेदान्तर्मुहूर्तिकम् । योगरोधो जिनेन्द्राणां ध्यानं कमौघघातकम् ।। ६५ ।। भावनाऽनुप्रेक्षा-चिन्ताः एकचिन्तानिरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा ध्यानसन्तानमुच्यते ।। ६६ ।। प्रशस्ताप्रशस्तविभागम् रागद्वेषौ शमी मुक्त्वा यद्यद्वस्तु विचिन्तयेत् । तत्प्रशस्तं मतं ध्यानं रौद्राद्यं चाप्रशस्तकम् ।। ६७ ।। ध्यानव्याख्या वीतरागो भवेत् योगी यत्किञ्चिदपि चिन्तयन् । तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः ।। ६८ ।। आर्त्तरौद्रव्याख्या आर्त रौद्रं च दुर्ध्यानं प्रत्येकं तञ्चतुर्विधम् । अर्ते भवमथार्तं स्यात् रौद्रं प्राणातिपातजम् ।। ६९ ।। चतुष्प्रकारमार्तध्यानम् अनिष्टयोगजं चाद्यं परं चेष्टवियोगजम् । रोगार्तं च तृतीयं स्यात् निदानातं चतुर्थकम् ।। ७० ।। अनिष्टसंयोगजमातम् विषदहनवनभुजंगमहरिशस्त्रारातिमुख्यदुीवैः । स्वजनतनुघातकृभिः सह योगेनार्त्तमाद्यं च ।। ७१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org