________________
११४
ध्यानशतकम् विनैकं स्वकमात्मानं सर्वमन्यन्निजात्मनः । मत्वेतीष्टाप्तिनाशेऽङ्गिन् ! हर्षशोको हि मूढता ।। २६ ।। अशुचिभावना शुक्रादि बीजं निन्द्यमनेकाशुचिसम्भृतम् । मलिनं निसर्गनिःसारं लज्जागारं त्विदं वपुः ।। २७ ।। विनश्वरं पोषितभूषितं किं यात्येव यत्तन्मिलितं ततः किम् । सृजति पुनः पतति ततः किं जातो मतो यो विफलस्ततः किम् ।। २८ ।। आश्रवभावना मनोवच:कायकर्म योग इत्युच्यते जिनैः । स एवाश्रव इत्युक्तः सोऽप्यशुभ: शुभस्तथा ।। २९ ।। अम्भोधौ यानपात्रस्य छिद्रं सूते यथा जलम् । योगरन्ब्रैस्तथा जीव: कर्मादत्ते शुभाशुभम् ।। ३० ।। संवरभावना अशेषाश्रवरोधो यः संवरोऽसौ निगद्यते । द्रव्यतो भावतश्चापि स द्विधेति प्रवर्तते ।। ३१ ।। यः कर्मपुद्गलादानविच्छेदः स्यात्तपस्विनाम् । स द्रव्यसंवरो ज्ञेयो योगिभिर्भावितात्मभिः ।। ३२ ।। यः संसारनिमित्तस्य क्रियाया विरतिः सताम् । स भावसंवरो ज्ञेयः सर्वसंवृतयोगिनाम् ।। ३३ ।। निर्जराभावना मूलभूतानि कर्माणि जन्मान्तादिव्यथातरोः । विशीर्यते यया सा च निर्जरा प्रोच्यते बुधैः ।। ३४ ।। सा सकामा ह्यकामा च द्विविधा प्रतिपादिताः । निर्ग्रन्थानां सकामा स्यादन्येषामितरा तथा ।। ३५ ।। स्वयं पाक उपायाञ्च फलानां स्याद्यथा तरोः । तथात्र कर्मणां पाक: स्वयं चोपायतो भवेत् ।। ३६ ।। विशुध्यति यथा स्वर्णं सदोषमपि वह्निना । तद्वच्छुध्यति जीवोऽयं तप्यमानस्तपोनिना ।। ३७ ।। धर्मस्वाख्यातभावना जगदाधारो धर्मो दयान्वितो दशविधश्च पूतजगत् । स्वर्गापवर्गसुखदः सुदुर्लभो भाव्यते भव्यैः ।। ३८ ।। यस्यांशमेवमुपसेव्य भजन्ति भव्या मुक्तिं वृषस्य शुचिदानदयादिज्ञातैः । शक्यं स्वरूपमतुलं गदितुं हि सम्यक् किं तस्य नास्तिकनरैश्च कुशास्त्रवादैः ।। ३९ ।।
गाथा ४०-४१ बाकी लोकस्वरूपभावना जीवादयो यत्र समस्तभावा जिनैर्विलोक्यन्त इतीह लोकः । उक्तनिधासौ स्वयमेव सिद्धो स्वामी च नित्यो निधनश्च चिन्त्यः ।। ४२ ।। उत्पद्यन्ते विपद्यन्ते यत्रैते जीवराशयः । कर्मपाशातिसम्बद्धाः नानायोनिषु संस्थिताः ।। ४३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org