________________
परिशिष्टम्-९ पूज्यपाद-उपाध्यायश्रीसकलचन्द्रगणिकृता
ध्यानदीपिका । मङ्गलं सर्वद्धिलब्धिसिद्धीशैयोगीन्द्रैर्वृत्तमिष्टदम् । निष्पापं पापाहं वन्दे सर्वं सर्वज्ञमण्डलम् ।। १ ।। विषयः ब्रह्मज्ञानानन्दे लीनार्हत्सिद्धसाधुसन्दोहम् । स्मृत्वा ध्यानकृतेऽहं ध्यानाध्वगदीपिकां वक्ष्ये ।। २ ।। ध्यानार्थिमुद्दिश्य जैनागमार्थानवलम्ब्य मोहध्वान्तान्तकृत्री शमशुद्धिदात्री । ध्यानार्थिभिः स्वान्तगृहे विधेया नित्यं निजोद्योतकृते कृतीशैः ।।३।। हितादि जीवो ह्यनादिमलिनो मोहान्धोऽयं च हेतुना येन । शुध्यति तत्तस्य हितं तञ्च तपस्तञ्च विज्ञानम् ।।४ ।। भावनाऽऽवश्यकी जन्मजरामरणभयैः पीडितमालोक्य विश्वमनगाराः । निःसङ्गत्वं कृत्वा ध्यानार्थं भावनां जग्मुः ।। ५ ।। भावनाभूमिका भूतेषु भज समत्वं चिन्तय चित्ते निजात्मरूपं च । मनसः शुद्धिं कृत्वा भावय चित्तं च भावनया ।। ६ ।। भावना भावना द्वादशैतास्ता अनित्यादिकताः स्मृताः । ज्ञानदर्शनचारित्र्यं वैराग्याद्यास्तथा पराः ।। ७ ।। ज्ञानभावना वाचना पृच्छना साधुप्रेक्षणं परिवर्तनम् । सद्धर्मदर्शनं चेति ज्ञातव्या ज्ञानभावना ।। ८ ।। दर्शनभावना संवेगः प्रशमः स्थैर्य-मसम्मूढत्वमस्मयः । आस्तिक्यमनुकम्पेति ज्ञेया सम्यक्त्वभावना ।। ९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org