________________
परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम्
१११ युगबाहुः सहोदरः स च युवराजा । तस्य मदनरेखा प्राणप्रिया । सा च परमश्राविका सतीशिरोरत्नम् । अन्यदा मदनरेखारूपं निरीक्ष्य मणिरथस्तया सह संयोगाभिलाषी नानाविधवसनविभूषणादि तस्या प्रेषयति। सापि ज्येष्ठप्रेषितमिति बहुमानादादत्ते । अन्यदा मणिरथेन तस्याः पुरतः स्वचेतोभावे आविर्भाविते तया स नानाविधोपदेशैस्तस्मादकृत्यान्निवारितश्चिन्तयामास, नूनमेषा प्राणप्रिये जीवति नेतरं नरमिच्छति; तेन केनाप्युपायेनैतस्याः पतिर्मार्यते यथैषा मां प्रतिपद्यते । इति विचिन्त्य स तच्छिद्राणि गवेषयति स्म । अन्यदा मदनरेखया शशी स्वप्ने दृष्टः प्रियस्याग्रे प्रोक्तः। तेनाप्युक्तं तव स्वप्नानुभावान्महाराजा तनूजो भावी।' अथ च तस्या गर्भानुभावाद् ये ये प्रशस्तदोहला: समुत्पद्यन्ते ते ते प्रियेण पूर्यन्ते स्म । अन्यदा वसन्तौ सदयितो युगबाहुः क्रीडार्थमुद्याने गतस्तत्रैव कदलीगृहे प्रसुप्तस्तदा च मणिरथेन चिन्तितं साम्प्रतं चिन्तितकृतस्य मे प्रस्ताव इति चिन्त्य तेन तत्रागत्य युगबाहु णितो नात्र प्रस्तावः शयनस्य तेनोत्तिष्ठ वयं यामोऽतर्नगरमिति कथनान्तरं तौ सोदरौ पुरं प्रति गन्तुं प्रवृत्ती, मार्गे च मणिरथेन युगबाहुः कन्धरायां खड्गेन गाढप्रहारेणाहतो निमिलितलोचन: पतितः क्षितौ । तदा च मदनरेखया पूत्कृतिः कृता तां च निशम्य धाविता: सुभटाः किमेतदिति वदन्तस्तदा च मणिरथेनोक्तं मम प्रमादादसिः कन्धरायां निपतित इत्यादिकृत्रिमशोकं कुर्वन्सेवकैः स बलानीतो नगरं कथितं च तत्स्वरूपं युगबाहुसूनोश्चंद्रयशसः । सोऽपि वैद्यवृन्दमादाय ययावुद्यानं वैद्यैश्चासाध्य इत्युक्ते मदनरेखया कारिताराधनो धर्मध्यानलीनमनाः स गतः स्वर्लोकम् । मणिरथोऽपि तस्यामेव रजन्यां भुजगेन दष्टो रौद्रध्यानपरो गतस्तुरीयनिरये। प्रातश्चन्द्रयशसा पितृपितृव्ययोर्दाहे कृते सामन्तादिभिः स राज्येऽभिषिक्तः। अग्रतो मदनरेखावृतान्तस्तु नात्र लिख्यते बहुविस्तरत्वात्तेन नमिप्रत्येकबुद्धचरित्रादेव सोऽवसेयः, यथा मणिरथेन रौद्रध्यानं निरयनिदानं कृतं तथा नान्यैस्तद् विधेयम् ।
__ अथ धर्मध्यानेऽर्हनकदृष्टान्तः । तथाहि - तगरानगर्यां दत्तो वणिक् तस्य भद्रा प्राणप्रिया पुत्रोऽर्हनकः । अन्यदा संवेगरङ्गपूरितो दत्तः सुतदयिताभ्यां समं सद्गुरुसमीपे श्रामण्यमङ्गीचकार । अथ च पिता मोहात्सुतं भिक्षाचर्यायां गन्तुं न ददाति स्वयं च समानीतैर्मनोज्ञाहारैः सुतं सुखिनं करोति । एवं गते कियति समये पिता पञ्चतां गतस्ततोऽर्हनको निदाघौ भिक्षार्थं निर्गतः सुकुमालतनुरुपर्यधश्च दह्यमानश्छायायां विश्रान्तः । तदा चैक्या प्रोषितपतिकया वनितया दृष्टः स सुरुपो नवयौवनः । दृष्ट्वा च समाकार्य स मोदकैः प्रतिलाभितः । तदनु च तयोक्तं किमेतत्तारुण्यानुचितं दुश्चरं तपश्चरणम् । तेन तिष्ठ मत्सौधे भुंक्ष्व च मया समं पञ्चविधं विषयसुखम्, इति तयोक्तः परीषहपराजितस्तया समं पञ्चप्रकारवैषयिकसुखोपभुक्तिपरः स स्थितस्तत्सदने । इतश्च तत्सवित्री पुत्रशोकेनोन्मत्ता गृहाद् गृहं भ्रमन्त्यर्हन्नकः क्वासीति प्रलपन्ती समागता तत्र कियत्समयातिक्रमे अर्हनकेनोपलक्षिता निपतितश्च स तत्पदोः। तयाऽपि सुतमिलनेन स्वस्थीभूतचित्तया प्रोक्तं किमेतदसमञ्जसं कृतम् । अद्यापि चारित्रमङ्गीकुरु दुष्कर्मक्षयकृते इति तयोक्ते चिरसमयानुष्ठेयं चारित्रमाराधयितुमशक्तः स करोम्यनशनमित्यवादीत्तयाप्योमिति प्रोक्ते तप्तशिलोपरिकृतपादपोपगमानशनो धर्मध्यानलीनमनाः स्वल्पेनैव कालेन नवनीतवद् विलीनो गत: स स्वर्लोकम् । यथाऽनेन धर्मध्यानं तथाविधकष्टेऽपि न त्यक्तं तथान्यैरपि तन्न त्याज्यम् ।
शुक्लध्याने तु गजसुकुमालमेतार्यस्कन्धकाचार्यविनेयमरुदेवीभरतसार्वभौमप्रसन्नचन्द्रराजर्षिपृथ्वीचन्द्रगुणसागरप्रभृतयः प्रतीता एव दृष्टान्ताः।
इत्युक्तं ध्यानस्वरूपम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org