________________
११०
ध्यानशतकम् शोध्यादयो विधीयन्ते । यथा ध्यानतो वाक्काययोगयोस्तापशोषभेदा भवन्ति तथा कर्मणोऽपि ध्यानतस्ते भवेयुः । यथा वा रोगाणां शमनं वमनविरेचनौषधादिभिः प्रकारैर्भवेत्तथा कर्मामयशमनमपि ध्यानानशनादिभिः प्रकारैः स्यात् । यथा वा चिरसञ्चितमिन्धननिवहं हुतभुक्पवनसमन्वितो ध्रुवं दहति तथाऽमितमपि कर्मेन्धनसमूहं ध्यानवह्निर्दहति तत्क्षणादेव । यथा वा जलदपटलं प्रचण्डप्रभञ्जनप्रेरितं क्षणादेव विलीयते तथा ध्यानपवमानावधूतं कर्मघनजालमपि । [ध्या. श. ९६-१०२]
अर्थतस्य शुभध्यानद्वयस्यैहलौकिकं फलमुच्यते । तथाहि - धर्मशुक्लध्यानाधिरूढचित्तो न बाध्यते शीतातपक्षुत्पिपासादिभिः शारीरिकैरसातैर्नापि च पीड्यते कषायसमुद्भूतैरीया॑विषादादिभिर्युःखनिवहै: ।
अतः कारणादाद्ये ध्याने अपहायान्तिमे ध्याने नित्यमेव ध्येये।
नन्वेवं निरन्तरं ध्यानविधाने शेषक्रियालोपः प्राप्नोति, नैवं क्रियाविधानस्यापि तत्त्वतो ध्यानत्वाद् । यतः सा नास्ति काचिदपि क्रिया या श्रीमदागमानुसारेण विधीयमाना मुनीनां ध्यानतया न सम्भवेत् । [ध्या. श. १०३-१०५]
इत्युक्तं ध्यानस्वरूपम् । श्री दर्शनरत्नरत्नाकरे तृतीयलहर्यां सप्तमतरङ्गे
ध्यानकथाः । अथ ध्यानस्वरूपमुच्यते। तथाहि- १-आर्त २-रौद्र ३-धर्म ४-शुक्लध्यानभेदेन ध्यानं चतुर्विधम्। तेष्वार्तरौद्रध्यानपरिहारपुरस्सरं निरन्तरं धर्मशुक्लध्याने विधेये । यदुक्तं त्रिंशे श्रीमदुत्तराध्ययने
__ "अट्टरुद्दाणि वजिता, झाइजा सुसमाहिए । धम्मसुक्काइं झाणाई, झाणं तं तु बुहा वए ।।१।।" ___ एषां तु स्वरूपमेतस्यामेव लहर्यां तुरीयतरङ्गे प्रोक्तम्, तेन तत एव विलोकनीयम् । एतेष्वार्त्तरौद्रध्याने तिर्यग्निरयगतिनिदाने, तेन ते वर्जनीये । धर्मशुक्लध्याने तु सुरगतिपञ्चमगतिहेतुभूते, अतस्ते विधेये ।
अत्रातध्याने तापसश्रेष्ठिकथा । तथाहि- कौशाम्ब्यां तापसः श्रेष्ठी नानाविधारम्भैरुपार्जिप्रभूतवित्तस्तबलेन कारितानेकगृहः कलत्रपुत्रादिसमीकारनिरतः प्रान्तसमयेऽप्यपरित्यक्तधनसदनस्वजनादिममत्व आर्तध्यानपरः परासुभूतः समुत्पन्नः शुकरतया । स्वसदनस्वजनादि निरीक्ष्य जातजातिस्मृतिः प्राग्भवपुत्रेण हतो मृत्वा स्वगृह एव समुत्पेदे सर्पतया । तत्रापि जातिस्मरणात्तद्गृहममुञ्चन् प्राग्भवसुतेन हतः केनचित् शुभाध्यवसायेन मृतः समुत्पन्न: स्वतनूद्भववल्लभाकुक्षौ । पूणेषु दिनेषु जातः स्वसदनादि निरीक्ष्य जातजातिस्मृतिः कथं सुतं तातं वधूं च जननीं वदामीति विचिन्त्य मूकत्वमाश्रितो नानाविधैः पितृकृतोपायैस्तद्भावमत्यजन् क्रमेण वृद्धिं गतः । साधुसङ्गाद्धर्मपरः क्रमेण श्रामण्यमङ्गीकृत्य देवभूयं गतः । यथैष तापसः श्रेष्ठी आर्त्तध्यानात्तिर्यग्गतिं गतस्तथान्येऽपि ततस्तां यान्ति। तस्मात्तद्धेयम् । यथैष मूकभवे धर्मध्यानात्सुरगतिमवाप तथापरैरपि सा प्राप्यते तस्माद्धर्मध्यानं विधेयम् ।
रौद्रध्याने तु मणिरथपार्थिवो निदर्शनम्। तथाहि- अवन्तिजनपदेषु सुदर्शनपुरे मणिरथो नृपस्तस्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org