________________
१०९
परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम्
___ एतेषु प्रथमं मनोयोगादावेकस्मिन् योगे सर्वेषु वा तत्त्वागमिकश्रुतपाठिनः । द्वितीयं त्वेकस्मिन्नेव योगान्तरसङ्क्रमाभावात् । तृतीयं तु काययोग एव। तुरीयं त्वयोगिनि शैलेशीकेवलिनि । [ध्या. श. ८३]
ननु ध्यै चिन्तायामिति धातुपाठाद्ध्यानं मनःपरिणाम एव, शुक्लध्यानोपरितनभेदद्वयं तु निरुद्धमनोयोगे केवलिनि प्रोक्तम्, कथमेतत् संगतम् ? उच्यते - यथा छद्मस्थस्य मनः सुनिश्चलं सद् ध्यानमुच्यते, तथा योगत्वाव्यभिचारात् केवलिन: काय एव सुनिश्चल: सन् ध्यानता निगद्यते । अत्र हेतवो दृश्यन्ते। तथाहि१-पूर्वप्रयोगात् २-कर्मनिर्जराहेतुत्वात् ३-च्छब्दार्थबहुत्वात् ४- श्रीजिनागमप्रामाण्याच्च । यथा पूर्वप्रयोगात् कुलालचक्रं भ्रमणकारणदण्डादिक्रयाभावेऽपि भ्रमति तथा केवलिनो मनःप्रभृतियोगनिरोधेऽपि जीवोपयोगसद्भावतो भावचित्तस्य सद्भावाद् भवस्थस्य ध्याने । एवं शेषहेतवोऽपि योजनीयाः। विशेषस्तूच्यते - यथा क्षपकश्रेण्या कर्मनिर्जरा तथाऽत्रापि भवोपग्राहिकर्मनिर्जरेति भावः। शब्दार्थबहुत्वादिति यथा एकस्यैव हरिशब्दस्यादित्यदेवपतिप्रभृतयोऽनेकेऽर्था एवं ध्यानशब्दस्यापि 'ध्यै चिन्तायां,' 'ध्यै काययोगनिरोधे,' 'ध्यै अयोगित्वे' इत्यादि । यतो जिनागमस्य प्रमाणमत एव जिनागमोक्तत्वान्मनोयोगनिरोधेऽपि भवस्थस्य केवलिनः शुक्लध्याने। उक्तं ध्यातव्यम् । [ध्या. श. ८४, ८६]
अथ ध्यातृस्वरूपमुच्यते । तथाहि प्रथमसंहननसंयुताः सर्वप्रमादविरहिता यतयः क्षीणोपशान्तमोहाश्चतुर्दशपूर्वविदश्च तदुपयुक्ताः । आद्ययोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारयोः शुक्लध्यानयोर्ध्यातारः। द्वयोश्चांतिमयोः क्रमतः सयोग्ययोगिकेवलिनः । [ध्या. श. ६३, ६४] ।
उक्ता ध्यातारोऽथानुप्रेक्षाः प्रदर्श्यन्ते । तथाहि - शुक्लध्यानभावितचित्तश्चरितगुणगरिष्ठो यतिर्मिथ्यात्वाविरत्याद्याश्रवद्वारविहिताऽनन्तदुःखलक्षपणाय १ भवाऽशुभानुभावा२ऽनन्तभवसन्तान३वस्तुविपरिणामलक्षणाः ४ शुक्लध्यानाद्यभेदद्वयसङ्गताश्चतस्रोऽनुप्रेक्षांश्चिन्तयेत् । उक्ताऽनुप्रेक्षाः। [ध्या. श. ८७, ८८]
अथ लेश्या दर्श्यन्ते ! तथाहि - सामान्येन शुक्ललेश्यायामाद्ये शुक्लध्याने । तृतीयं परमशुक्ललेश्यायाम् । तुरीयं तु लेश्यातीतम्, इत्युक्ता लेश्याः । [ध्या. श. ८९]
अथ लिङ्गान्युच्यन्ते । अवधाऽसम्मोहविवेकव्युत्सर्गलक्षणानि चत्वारि लिङ्गानि भवन्ति शुक्लध्यानस्य। १-परीषहोपसर्गर्न बिभेति ध्यानाञ्च न तैश्चाल्यत इत्यवधलिङ्गम् । २-देवमाययाऽत्यन्तगहनेष्वपि भावेषु न सम्मुह्यतीत्यसम्मोहलिङ्गम् । ३-देहविविक्तं पश्यत्याऽऽत्मानं तथा सर्वानपि च संयोगानिति विवेकलिङ्गम् । ४-देहोपधिव्युत्सर्गः निःसंगः सन् सर्वथा करोतीति व्युत्सर्गलिङ्गम् । इत्युक्तानि लिङ्गानि। [ध्या. श. ९०-९२]
अथ फलमुच्यते । तथाहि - यान्येव शुभास्रवसंवरनिर्जरादीनि निगदितानि धर्मध्यानस्य फलानि तान्येव सविशेषानि शुक्लध्यानस्यापि। अनुत्तरसुरसौख्यानि च शुक्लस्यादिमयोर्भदयोः फलं चरमयोस्तु निर्वाणम् । [ध्या. श. ९४]
____ अथ सामान्येनैव फलमुच्यते । तथाहि - संवरनिर्झरे अपवर्गस्य मार्गस्तयोश्चाऽयतं तपःप्रधानं च तपोऽङ्ग ध्यानं तस्मात्तत् मुक्तिनिदानम् । अयमेवार्थः स्पष्टीक्रियते - दृष्टान्तैर्यथा सिचयकालायसवसुमतीनां मलकलङ्ककर्दमा क्रमतः शोध्यन्तेऽपनीयन्ते शोष्यन्ते च सलिलाऽनलसूर्यैस्तथा ध्यानाम्बुवह्निसूरैः कर्मणामपि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org