________________
१०८
ध्यानशतकम् भावनादेशकालासनविशेषेषु न विशेष इत्यालम्बनादीनि द्वारद्वाराण्युच्यन्ते । तथाहि क्षान्तिमार्दवार्जवमुक्तयः श्रीमदर्हत्प्रवचनरहस्यभूता आलम्बनानि भवन्ति शुक्लध्यानस्य। यतस्तदालम्बन एव पुमान् शुक्लध्यानमधिरोहति। [ध्या. श. ६९]
क्रमस्तु शुक्लध्यानयोराद्ययोर्द्वयोर्धर्मध्यानवत् । विशेषः पुनरेष त्रिजगद्विषयं मनः क्रमेण संक्षिप्य परमाणुविषये स्थापयित्वा ध्यायति सुनिष्प्रकम्पः संश्छद्मस्थः शुक्लध्यानम् । ततोऽपि प्रयत्नविशेषात् मनोऽपनीयाऽमना जिनः स्याञ्चरमयोर्द्वयोर्ध्याता । तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तस्तस्यां च द्वितीयस्य, अत एव शुक्लध्यानाद्यभेदद्वयं ध्यात्वाऽतिक्रान्तस्य पञ्चमावबोधप्राप्तिः केवली च शुक्ललेश्योऽध्यानी च यावत् शैलेश्या अर्वागन्तर्मुहूर्त्तम् । तत्र च सूक्ष्मक्रियानिवृत्तिरूपं तृतीयो ध्यानभेदः। शैलेश्यां च व्युच्छिन्नक्रियानिवृत्तिरूपस्तुर्यो भेदः। [ध्या. श. ७०]
____ अत्राह विनेयः - कथं छद्मस्थस्त्रैलोक्यचरणशीलं चेतः संक्षिप्य परमाणौ स्थापयति ? कथं वा ततोऽप्यऽपनयति पञ्चमावबोधी ? उच्यते - यथा सर्ववपुर्विषयं विषं मंत्रबलेन निरुध्य मंत्रवादी डङ्क एव स्थापयति, तदनु प्रधानतरमंत्रबलेन च ततोऽप्यपनयति, तथा त्रिभुवनविषयं मनो जिनवचनध्यानबलेन परमाणौ धारयति, तदनु जिनमन्त्रवादी विशिष्टतरध्यानमन्त्रबलेन ततोऽप्यपनयति । [ध्या. श. ७१, ७२]
अत्रैवार्थे दृष्टान्तान्तरमुच्यते । तथाहि - यथा अपसारितेन्धनभरः स्तोकेन्धनावशेषे वह्निर्वह्निमात्रमेव स्यात्ततोऽप्यपनीतश्च यथा वा स निर्वाति, तथा मनोहताशोऽपि । यथा वा नालिकायां तप्तायसभाजनोदरे वा स्थितं तोयं क्रमेण हीयमानं सन्निरवशेषतयाऽपैति तथा मनोजलमपि । एवं यथा विषादिभिर्निदर्शनैर्मनोयोगं निरुणद्धि पञ्चमावबोधी । तथा वाग्योगं तथैव च क्रमात् काययोगं योगत्रयं च रुद्धशैलेशवत् स्थिर: शैलेशी केवली भवति । इत्युक्त: शुक्लध्यानस्य क्रमः। [ध्या. श. ७३-७६]
अथ ध्यातव्यमुच्यते । तथाहि - ध्यातव्यं पृथक्त्ववितर्कसवीचारादिभेदेन चतुर्विधम् । तत्र पृथक्त्वेन विस्तीर्णभावेन, वितर्को विचरणम्, यस्मिंस्तत्पृथक्त्ववितर्के, सविचारमर्थव्यञ्जनयोगान्तरसङ्क्रमतः तत्राऽर्थाव्यं व्यञ्जनं च शब्दोपयोगस्तु मनोयोगादिकः। अयं भावः - उत्पत्ति-स्थिति-विपत्त्यादि-पर्यायाणां यदेकस्मिन् द्रव्ये परमाणुजीवादिके द्रव्यार्थिकपर्यायार्थिकादिनानानश्चिन्तनं पूर्वगतश्रुतानुसारेण पूर्वविदां मरुदेव्यादीनां त्वन्यथा तत् प्रथमं ध्यातव्यम् १। [ध्या. श. ७७, ७८]
अथ द्वितीयमुच्यते । तथाहि - द्वितीयमेकत्ववितर्कमविचारम् । तत्रैकत्वेनाऽभेदेन, वितर्को व्यंजनरूपो वा, यत्र तत्तथा, अविचारस्त्वर्थव्यञ्जनयोगान्तरसङ्क्रमाभावतः। अयं भावो - निवातनिकेतनस्थितप्रदीपवदुत्पादस्थितिविनाशादिपर्यायाणामेकस्मिन् पर्याये यनिश्चलं चेतस्तद् द्वितीयम् २। [ध्या. श. ७९, ८०]
तृतीयं तु निर्वाणगमनप्रत्यासन्नसमये केवलिनो वाङ्मनोयोगद्वयेन द्धे सत्यर्द्धनिरुद्धतनुयोगस्य सूक्ष्मक्रियानिवृत्तिसूक्ष्मक्रियं च तदनिवृत्ति च प्रवर्द्ध मानान्तरपरिणामान्न निवर्त्ततीत्यऽनिवृत्ति उच्छासनिश्वासादिस्तोककायक्रियस्य ३। [ध्या. श. ८१]
तुरीयं तु शैलेशीगतस्य व्युच्छिन्नक्रियाऽप्रतिपातिनिरुद्धयोगत्रयस्यावसेयम् ४। [ध्या. श. ८२]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org