________________
परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम्
१०७. तथा क्षेत्रलोक एव धर्माद्या ईषत्प्राग्भारान्ता वसु[८]मिता भूमींश्चिन्तयेत्, तथा घनोदधिधनवाततनुवातरूपाणि सप्तपृथिवीपरिक्षेपरूपीणि स्थितान्येकविंशति वलयानि, तथाऽसंख्येयान् द्वीपोदधींस्तथा सीमन्तकादीनप्रतिष्ठानान्तान्निरयावासकाँस्तथाज्योतिष्कवैमानिकसम्बन्धीनि विमानानि, तथा भवनपतिसम्बन्धीनि भवनानि,तथा व्यन्तरनगराणि एतेषां च चिन्तनं संस्थानमानसंख्यादिचिन्तनतोऽवसेयम्, तथाऽऽ-काशादिकप्रतिष्ठितशाश्वतलोकस्थितिस्वरूपं चिन्तयेत् । [ध्या. श. ५४]
तथोपयोगलक्षणमनादिनिधनं शरीरात् पृथग्भूतं शुभाशुभकर्मकर्तारम्, तद्भोक्तारममूर्त च जीवं ध्यायेद्धर्मध्यानविधाता । [ध्या. श. ५५]
तस्य च जन्तोः स्वकर्मजनितं जननजरानिधननीरपरिपूर्णम्, कषायपातालकलशसङ्कलम्, व्यसनशतश्वापदसमाकीर्णम्, मोहमहावर्त्तमज्ञानपवनप्रेरितम्, संयोगवियोगमहोर्मिमालासमाकुलम्, महाभीमकापारावारसंसारपारावारम्, विचिन्तयेत्तस्य च संसारसागरस्य तारणे समर्थं सम्यग्दर्शनं सुबन्धनमनर्घम, ज्ञानमयनिर्यामकम्, संवरकृतनिश्छिद्रभावम्, तपःपवमानविहितवेगम्, वैराग्यमार्गे समापतितमपध्यानोर्मिमालाऽक्षोभ्यम्, चारित्रमयमहायानं विचिन्तयेत्, यं चानर्घ्यपृथिवीकायारम्भपरित्यागादिशीलाङ्गरत्ननिकरपरिपूर्णां समारुह्य सुश्रमणवणिजो यथा निर्वाणनगरं निरपायं त्वरयैव व्रजन्ति, यथा - तत्र गतानां रत्नत्रयोपार्जितमनन्तमप्रतिममेकान्तभाविसौख्यं भवेत्तथा ध्यायेत् । [ध्या. श. ५६-६१]
किं बहुना ? सर्वमेव जीवादिपदार्थविस्तरोपेतसर्वनयसमूहात्मकसमयसद्भावं ध्यायेद्धर्मध्यानध्याता । [ध्या. श. ६२]
___अथ धर्मध्यानध्यातृस्वरूपमुच्यते । तथाहि - अप्रमादिन उपशान्तमोहाः क्षीणमोहाश्च धर्मध्यानस्य ध्यातारः। [ध्या. श. ६३]
अथाऽनुप्रेक्षास्वरूपं किञ्चित् प्ररूप्यते । तथाहि - यः पूर्वं धर्मध्यानेन भावितचित्त: स्यात् स धर्मध्यानोपरमेऽप्यनित्यताऽशरणतैकतासंसारासारताचिन्तनरूपाश्चतस्रोऽनुप्रेक्षा भावयेत् । [ध्या. श. ६५]
अथ लेश्या उच्यन्ते । तथाहि - क्रमतो विशुद्ध-विशुद्धतर-विशुद्धतमाः तेजःपद्मशुक्ललेश्या भवेयुर्धर्मध्यानध्यायिनः । [ध्या. श. ६६]
अथ लिङ्गमुच्यते । तथाहि - आगमोपदेशाज्ञानिसर्गतो यज्जिनप्रणीतभावानां सम्यक्श्रद्धानं तद्धर्मध्यानस्य लिङ्गम्, तथा यो जिनमुनिगुणोत्कीर्तनदानविनयसम्पन्नः श्रुतशीलसंयमरतश्च स्यात्सोऽप्येवंविधैर्लिङ्गैर्द्धर्मध्यानवानवसेयः । [ध्या. श. ६७, ६८]
अथ फलमुच्यते । तथाहि - धर्मध्यानस्य पुण्याश्रवरूपः शुभाश्रवस्तथाऽशुभकर्मागमनिरोधरूपः संवरस्तथा कर्मक्षयरूपा निर्जरा तथा सुकुलप्रत्यागमनपुनर्बोधिलाभभोगप्रव्रज्याऽपवर्गानुबन्धित्वाच्छुभानुबन्धीनि नरामरसुखानि फलानि भवेयुः। इत्युक्तं द्वादशभिरैर्द्धर्मध्यानम् ।।३।। [ध्या. श. ९३]
[अथ शुक्लध्यानम्] अथ शुक्लध्यानस्य स्वरूपं किञ्चिदुच्यते । तथाहि शुक्लस्यापि भावनादीनि द्वादशद्वाराणि स्युस्तेषु
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org