________________
१०६
ध्यानशतकम अथालम्बनान्युच्यन्ते । तथाहि - वाचनाप्रच्छनापरावर्तनानुप्रेक्षारूपाणि श्रुतधर्मानुगतान्यालम्बनानि । चारित्रधर्मानुगतानि तु सामायिकप्रत्युपेक्षणाद्यवश्यकरणीयरूपाणि । [ध्या. श..४२]
यथा गृहीतदृढद्रव्यालम्बनः पुमान् विषमस्थाने समारोहति, एवं कृतवाचनाद्यालम्बनो धर्मध्यानेऽपि । [ध्या. श. ४३]
ध्यानप्रतिपत्तिक्रमस्तु यथा मनःस्वस्थता भवेत्तथा मनोवचनतनुनियंत्रणरूपोऽवसेयः ।[ध्या. श. ४४, ]
अथ ध्याताव्यमुच्यते तथाहि - आज्ञाऽपायविपाकसंस्थानविचयभेदाद्ध्यातव्यं चतुर्दा । तत्र सूक्ष्मद्रव्याधुपदर्शकत्वात् सुनिपुणाम्, द्रव्यार्थनयादेशादनादिनिधनाम्, 'सव्वे जीवा न हंतव्वेत्यादिवचनैः सर्वभूतहिताम्, भूतं सत्यं भाव्यतेऽनयेति भूतभावनामनेकान्तपरिच्छेदात्मिकामिति यावत्तथाऽनामपरिमिताम्, शेषकुप्रावचनिकैरजिताम्, पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वात्तथागर्भत्वाच्च महामचिन्त्यशक्तिसमेतत्वाच्च महानुभावाम्, सर्वद्रव्यादिविषयत्वाच्च महाविषयाम्, निरवद्यामनिपुणजनदुर्जेयाम्, नयभङ्गप्रमाणगमगहनाम्, श्रीजिनाज्ञां भावयेत् । [ध्या. श. ४५, ४६]
तत्र च मतिदुर्बलतया तद्विधकथकाचार्यवियोगेन धर्मास्तिकायादिज्ञेयगहनतया ज्ञानावरणकर्मोदयेन च कस्मिंश्चित् पदार्थे हेतुदृष्टान्तासम्भवेऽपि सम्यगवबोधश्चेन्न स्यात्तथापि 'श्रीसर्वज्ञमतमवितथमेवेति विचिन्तयेत् मतिमान् । यतोऽनुपकृतेऽपि परानुग्रहपरा जगत्प्रवरास्तीर्थकरा निर्जितरागद्वेषमोहा नान्यथावादिनो भवेयुरित्युक्तं प्रथमं ध्यातव्यम् १ । [ध्या. श. ४७, ४८, ४९]
___ अथ द्वितीयमुच्यते । तथाहि - रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानां प्राणिनामैहिकामुत्रिकापायान् विचिन्तयेदप्रमत्ततया सावधपरिवर्जकः। [ध्या. श. ५०]
अथ तृतीयमुच्यते तथाहि - मिथ्यात्वाविरतिकषाययोगजनितं शुभमशुभं च प्रकृतिस्थित्यनुभागप्रदेशभेदतश्चतुर्विधं कर्मविपाकं ध्यायेद्धर्मध्यानं ध्याता ३। [ध्या. श. ५१]
अथ तुरीयमुच्यते। तथाहि - श्रीजिनप्रज्ञप्तानि धर्मास्तिकायादिद्रव्याणां गमनस्वभावादीनि लक्षणानि, तथालोकक्षेत्रापेक्षया धर्माधर्मयोः संस्थानानि, पुद्गलापेक्षया उपरिमंडलादीनि, जीवशरीरापेक्षया तु समचतुरस्रादीनि, तथा तेषामेव द्रव्याणामाधारभूतानि लोकाकाशादीनि, तथा 'धम्मस्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसे' इत्यादीनि तेषामेवं विधानानि, तथा तेषामेवात्मीयान्यतरीयानि प्रमाणानि, ध्यायेद्धर्मध्यानविधेयात्तथा तेषामेवोत्पत्तिविपत्तिस्थित्यादिपर्यायाश्च, तत्र धर्मास्तिकायो विवक्षितसमयसम्बन्धिरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, द्रव्यात्मना तु नित्यः, एवमधर्मास्तिकायादिष्वपि भावना विधेया। [ध्या. श. ५२]
तथा पञ्चास्तिकायमयमनाद्यमनन्तं जिनोदितम् । "नामं ठवणा दविए, खित्ते काले भवे अ भावे अ ।
पज्जवलोए अ तहा, अट्ठविहो लोगनिक्खेवो ।।१।।" इति गाथोक्तनामादिभेदभिन्नं, क्षेत्रलोकापेक्षया त्वधोलोकादिभेदत्रयभिन्नं लोकं चिन्तयेत् ।[ध्या. श. ५३,]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org