________________
१०५
परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् कृतेऽपि पातके निरनुतापः, ऐहिकामुत्रिकापायनिरपेक्षश्च भवेत्, पापं च निर्माय चित्ते प्रमोदं विधते । इत्युक्तं किञ्चिद् रौद्रध्यानम् ।।२।। [ध्या. श. २६, २७]
[अथ धर्मध्यानम्] अथ धर्मध्यानमुच्यते । तथाहि - भावनादेशकालासनविशेषाऽऽलम्बनक्रमध्यातव्यध्यायकानुप्रेक्षालेश्यालिङ्गफलानि विज्ञाय धर्मध्यानं विधेयम् । [ध्या. श. २८, २९]
तत्र पूर्वं भावनाभिः कृताभ्यासो धर्मध्यानस्य योग्यतामुपैति यतिः। ताश्च चतस्रो ज्ञानदर्शनचारित्रैवराग्यजनिताः। [ध्या. श. ३०]
तत्र श्रुतज्ञाने कृताभ्यासः करोति मनोधारणम्, तथा सूत्रार्थयोः शुद्धिर्भवनिर्वेदं च, तथा ज्ञाते तत्त्वे निश्चलमतिायेत धर्मध्यानम्। इति प्रथमा ज्ञानभावना १। [ध्या. श. ३१]
अथ द्वितीया दर्शनभावना - शङ्कादिदूषणपञ्चकविकल: प्रशमधैर्यादिगुणगणगरिष्ठस्तत्त्वान्तरेऽसम्भ्रान्तचित्तो दर्शनशुद्धिभावनया भावितो ध्यायेत सुकृतध्यानम् २। [ध्या. श. ३२]
अथ तृतीया चारित्रभावना - सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासतः प्राक्तनकर्मनिर्जरणे नवीनपापकर्माऽनादानेन च चारित्रभावनया भावितः प्राप्नोति सुकृतध्यानम् ३। [ध्या. श. ३३]
अथ तुरीया वैराग्यभावना - सुविदितजगत्स्वभावः, निस्सङ्गः, निर्भयः, ऐहिकामुत्रिकाशंसाविप्रमुक्तः, तथाविधक्रोधादिकषायविरहितो वैराग्यभावनाभावितो ध्यायेत धर्मध्यानम् ४। [ध्या. श. ३४]
अथ धर्मध्यानदेशस्वरूपं किञ्चिद् भाव्यते । तथाहि - नित्यमेव युवतिपशुपण्डकङ्तकारादिकुशीलवर्जितं विजनं स्थानमुक्तं यतिजनस्य। विशेषस्तु धर्मध्यानसमये तु संहननधृतिभ्यां बलवन्तोऽभ्यस्तभावनादिव्यापारास्तेषां ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः । तत: कारणाद् यत्र मनोवचनतनूनां समाधानं स्यात्स देशो धर्मध्यानस्य । वचनतनुसमाधानमत्र क्वोपयुज्यते? उच्यते, तत्समाधानं मनोयोगोपकारकमतस्तत्समाधानमपि ध्यानमुच्यते। यदुक्तम्
“एवंविहा गिरा मे, वत्तव्वा एरिसा न वत्तव्वा, इअ वेआलिअवक्कस्स भासओ वाइअं झाणं ।। १।। सुसमाहिअकरपायस्स अकज्जे कारणम्मि जयणाए । किरिआकरणं जं तं, काइअझाणं भवे जइणो ।।२।।" [ध्या. श. ३५, ३६, ३७] कालस्तु स एव यत्रोत्तमयोगसमाधानं लभते, न तु दिननिशावेलानियमो धर्मध्यानविषये । [ध्या. श. ३८]
आसनमपि तदेव यत्र स्थितस्य धर्मध्यानं वर्द्धमानं भवेत् । तच्चोर्ध्वस्थितस्य-कायोत्सर्गरूपं निषण्णस्य पर्यङ्कासनादिशयितस्य-असण्डायितांहिकम्। किं बहुना ? या काचिद्देहचेष्टा धर्मध्यानोपरोधिनी स्यात्तया स्थेयम् । न तु धर्मध्याने देशकालासनानां नियमः, कुतो हेतोः? उच्यते - यतः सर्वेष्वपि देशकालासनविशेषेसु वर्तमाना अनन्ताः प्राणिनः प्राप्ता अपुनर्भवं केवलश्रियं समासाद्य । अतो हेतोस्तेषामनियमः। [ध्या. श. ३९, ४०, ४१]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org