SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ ध्यानशतकम [अथ रोद्रध्यानम्] __ अथ रौद्रध्यानस्वरूपं किञ्चिदुच्यते । तथाहि - हिंसानुबन्ध्यादिभेदेन चतुर्विधं रौद्रध्यानम् । तत्र प्रथम क्रोधादिग्रहग्रासतया जन्तूनां करकशलतादिभिर्वधविषये, तथा मारादिभिवेधविषये, तथा रज्जुभिर्बन्धविषये, तथोल्मुकादिभिर्दहनविषये, तथाऽङ्कने मारणे च यदृढाध्यवसायविधानं वधबन्धाद्यकुर्वतोऽपि स रौद्रध्यानस्य प्रथमो भेदः १। [ध्या. श. १९] अर्थतस्य द्वितीयभेदो दर्श्यते । तथाहि - मायाविनो वाणिजादेस्तथा परबन्धनप्रवृत्तस्य तथा प्रच्छन्नपापस्य पिशुनासभ्यासद्भूतभूतघातादिवचनेषु प्रवृत्तिमकुर्वतोऽपि यत्तद्विषये दृढाध्यवसानं स रौद्रध्यानस्य द्वितीयो भेदः । तत्र पिशुनमनिष्टसूचकवचनम् असभ्यं जकारादि। असद्भूतं तु त्रिधाऽभूतोद्भावनं १ भूतनिहवो२ऽर्थान्तराभिधान३ मिति । तत्र प्रथमं सर्वगत आत्मेत्यादि । द्वितीयं तु नास्त्येवात्मेत्यादि। तृतीयं गां तुरगमित्यादि वदतः। भूतघातादिवचनं तु छिन्द्धि भिन्द्धि व्यापादयेत्यादिकम् । [ध्या. श. २०] अर्थतस्य तृतीयभेदो विभाव्यते । तथाहि - तीव्रक्रोधलोभाकुलस्य जन्तोः परलोकापायनिरपेक्षो भूतोपघातपरद्रव्यापहारविषये यश्चित्ताध्यवसाय: स रौद्रध्यानस्य तृतीयो भेदः ३ । [ध्या. श. २१] अर्थतस्य तुरीयभेदो भाव्यते । तथाहि - शब्दादिपञ्चविषयसाधनधनसंरक्षणपरायणस्तथा सतामनिष्टस्तथा सर्वेषामभिशङ्कनेन न विद्मः कः किं करिष्यतीत्यादिलक्षणेन सर्वोपघातचिन्तनपरं कषायकलुषमेवंविधं यञ्चित्तं स रौद्रध्यानस्य तुरीयो भेद: ४ । [ध्या. श. २२] एतञ्च चतुर्विधमपि रौद्रध्यानं करणकारणानुमतिविषयं वर्जनीयमेव। एतच्च वेद(४)मितभेदमपि रौद्रध्यानं सम्यग्दृष्टि-मिथ्यादृष्टिरूपेष्वविरतेषु देशविरतेषु च सम्भवति, न तु संयतेषु प्रमत्ताप्रमत्तगुणस्थानसंस्थितेषु । [ध्या. श. २३] ___ ननु प्रसन्नचन्द्रराजर्षिस्तदा तत् कथमभूद्? उच्यते - यदाऽनेन महात्मना रौद्रध्यानाधिरूढेन मनसैव सम्परायं कुर्वता सप्तमनिरययोग्यं दुष्कर्म समुपार्जितं तदैतस्मिन् द्रव्यतो यतित्वमभून तु भावतः । यतो भावयति: प्रमत्तगुणस्थानस्थितोऽपि देवायुरेव बध्नाति न त्वन्यदायुस्त्रितयम्। ___एतच्चतुर्विधमपि रौद्रध्यानं रागद्वेषमोहमोहितमांतरौघतः संसारपरिवर्द्धनं विशेषतस्तु निरयगतिमूलम् । [ध्या. श. २४] लेश्यास्तु रौद्रध्यानध्यायिनः कर्मपरिणामजनिता अतिसंक्लिष्टा आद्या एव तिस्रो न त्वग्रेतनाः। [ध्या. श. २५] लिङ्गानि त्वेतद्धयानध्यायिन उत्सन्नदोषबहुलदोषनानाविधदोषामरणदोषरूपाणि चत्वारि भवन्ति। तत्र १-हिंसानुबन्धिप्रभृतिरौद्रध्यानानामन्यतरस्मिन् प्रवर्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्त्तत इत्युत्सन्नदोषः । २-सर्वेष्वपि चैवं प्रवर्त्तत इति बहुलदोषः । ३- नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः । ४- आत्मनाऽमहदापद्गतोऽपि महदापद्गतोऽपि वाऽन्यस्मिन्नामरणादसञ्जातानुताप इत्यामरणदोषः । एतानि लिङ्गानि रौद्रध्यानोपगतस्य भवन्ति। एतद्ध्यानोपगतश्च परव्यसनं बहु मन्यते, निर्दयः, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy