SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् १०३ प्रादुरासीदित्यतीतकालविषयरोगादिवेदनाभावानुमोदनविषयमार्त्तध्यानमयमार्त्तध्यानस्य द्वितीयो भेदः २। [ध्या. श.७] ____ अर्थतस्य तृतीयभेदो दर्श्यते । तथाहि - इष्टानां शब्दादिविषयानां तदाधारभूतानां च गायनवनीतादीनामवियोगचिन्तनं रागाकुलितचेतोवृत्तेर्वर्त्तमानकालविषयम् । तथाऽनागतकालविषयमुत्तरकालेऽत्यर्थं तत्संयोगचिन्तनम् । अतीतकालविषयं तु प्राक्प्रवृत्ततत्संयोगानुमोदनतः। अयमार्त्तध्यानस्य तृतीयो भेदः ३। [ध्या. श. ८] अथैतस्य तुरीयभेदः प्रदर्श्यते । तथाहि - देवतासार्वभौमादिपदवीप्रार्थनारूपमत्यन्तमज्ञानानुगतं निदानचिन्तनमार्तध्यानस्य तुर्यो भेदः। न ह्यज्ञानिनं विहायान्यः कोऽपि शिवसुखसाधकं तपःकष्टानुष्ठानादि सांसारिकसौख्यकृते विफलीकरोति । [ध्या. श. ९] एतच्चतुर्विधमप्यार्त्तध्यानं रागद्वेषमोहमलिनीकृतस्य जन्तोः संसृतिवर्द्धनमोघतो विशेषतस्तु तिर्यग्गतिमूलम्। [ध्या. श. १० ननु मुनेरपि शूलादिरोगाभिभूतस्यासमाधौ तत्प्रतीकारकरणे च तद्विप्रयोगप्रणिधानापत्तेस्तथा तपःसंयमासेवने च भवसम्भवदुःखवियोगप्रणिधानादार्तध्यानं सम्भवेद् ? अत्रोच्यते, रागद्वेषवशवर्तिनः स्यादेव न पुनरन्यस्य, तथाहि - स्वकर्मपरिणामजनितमेतच्छूलादीति स्वजीवानुशासनपूर्वं सम्यक् सहमानस्य पुष्टालम्बने चाऽनवद्यमल्पसावा वा तत् प्रतीकारं कुर्वतोऽपि तथा निदानरहिततपःसंयमरूपसांसारिकदुःखप्रतीकारं कुर्वाणस्य, किन्तु प्रत्युत्तद्धर्मध्यानमेवाऽवसेयम् । [ध्या. श. ११, १२] अथार्त्तध्यानस्य संसारवृद्धिहेतुता भाव्यते । तथाहि - रागद्वेषमोहाः संसृतिहेतवः कीर्त्यते सूत्रे। ते च त्रयोऽप्यार्तध्याने । तेन तत् संसारशिखरिमूलम् । [ध्या. श. १३] अथार्त्तध्यायिनो लेश्यास्वरूपं भाव्यते । कृष्णनीलकापोताख्यास्तिस्रो लेश्याः स्युरातध्यायिनो रौद्रध्यानापेक्षया नाऽतिसंक्लिष्टपरिणामास्ताश्च कर्मपरिणामजनिता विज्ञेयाः। [ध्या. श. १४] अथैतद्ध्यायिनो लिङ्गानि कीर्त्यते। तथाहि - १-आक्रन्दन २-शोचन ३-परिदेवन ४-ताडनस्वरूपाणि चत्वारि लिङ्गानि भवेयुरिष्टवियोगाऽनिष्टसंयोगवेदनाजनितानि । तत्राऽऽक्रन्दनं - महता शब्देन रोदनम्, शोचनंत्वश्रुपूर्णनयनस्य दीनता, परिदेवनं - तु क्लिष्टभाषणम्, ताडनम् - उरःशिरःकुट्टनकेशलुञ्चनादि । तथार्त्तध्यायी निजजनितान्यल्पफलानि विफलानि च शिल्पकलावाणिज्यादीनि निन्दति । तथा सकौतुकः प्रशंसति परविभूती: प्रार्थयते च तदर्जनपरायणश्च स्यात्। प्राप्तासु च तासु तद्रक्षणप्रवणश्च भवेत् तथा शब्दादिपञ्चविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरः श्रीमदागमानपेक्षी च भवेत् । [ध्या. श. १५, १६, १७] अथैतद् यत्र स्यान्न स्याश्च तद्व्यक्तिदर्श्यते । तथाहि - अविरतेषु सम्यग्दृष्टिमिथ्यादृष्टिरूपेषु तथा देशविरतेषु प्रमत्तसंयतेषु च संभवेन्न पुनरप्रमत्तसंयतेषु । तस्मात् सकलप्रमादमूलमेतदातध्यानं वर्जनीयमेव यतिभिर्यत्युपासकैश्च । इत्युक्तं किञ्चिदार्त्तध्यानस्वरूपम् ।।१।। [ध्या. श. १८] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy