________________
परिशिष्टम्-८ पूज्यपादश्रीमदाचार्यइन्द्रनन्दीसूरिशिष्यमुनिसिद्धान्तसारसङ्कलितदर्शनरत्नरत्नाकरे तृतीयलहर्यां चतुर्थतरङ्गे
ध्यानस्वरूपम् । ___ तथा ध्यानचतुष्कमध्यात्तिर्यग्निरयगतिनिदानभूते आर्त्तरौद्रध्याने न विधेये, स्वर्गापवर्गहेतुभूते धर्मशुक्लध्याने वाऽहर्निशं ध्येये । यतः शुभाशुभकर्मबन्धनिबन्धनभूतं ध्यानमेव। तत्र प्रथमे दुष्कर्मबन्धस्य हेतुभूते, अपरे तु शुभकर्मबन्धस्य । [ध्या. श. ५.]
___अथ ध्यानस्वरूपमुच्यते । यत् स्थिरमध्यवसानं तद्ध्यानम् । यत्तु चलं तच्चित्तम् । तत्तु भावनारूपमनुप्रेक्षारूपं चिन्तारूपं वा भवेत् । तत्र भावना ध्यानाभ्यासक्रिया । अनुप्रेक्षा त्वनु पश्चाद् भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः। एतदुक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा या सा चिन्ता । [ध्या. श. २]
___ इति ध्यानलक्षणं प्रतिपाद्य तत् कालस्वामिस्वरूपमुच्यते । तथाहि - छद्मस्थानामेकस्मिन् वस्तुनि चित्तावस्थानलक्षणं ध्यानमन्तर्मुहूर्तं यावद् भवति, ततः परं चिन्ता ध्यानान्तरं वा भवेत् । बहुवस्तुसंक्रमे तु ध्यानसन्तान: प्रभूतसमयमपि सम्भवेत् । अयं भावः - बहूनि वस्तून्यात्मगतानि-मनःप्रभृतीनि परगतानिद्रव्यादीनि तेषु संक्रमेण चिरेणापि ध्यानप्रवाह: स्यादिति । योगनिरोध एव केवलिनां ध्यानं न तु चित्तावस्थानम्, तद्व्यापारस्याभावात् । [ध्या. श. ३, ४]
[अथ आर्तध्यानम्] ___इत्थं सामान्येन ध्यानलक्षणमभिधाय तद्विशेषस्वरूपं प्रतिपाद्यते । तथाहि - तत्रार्तध्यानं चतुर्विधम्। तत्र प्रथमभेदो विभाव्यते। तथाहि - अमनोज्ञा ये इन्द्रियविषयास्तदाधारभूतानि च यानि वस्तूनि रासभादीनि तेषां प्राप्तानां सतामत्यर्थं वियोगचिन्तनं कथं नु ममैभिर्वियोगः स्यादिति वर्तमानकालविषयं द्वेषपोषतो वियोगचिन्तनम् । वियोगे च सति सम्प्रयोगाभावानुस्मरणं कथं ममैभिः समं सदैव सम्प्रयोगो न भवेदित्यनागतकालविषयं द्वेषाद् वियोगचिन्तनम् । तथा पूर्वकाले ममाऽमुक: संयुज्य वियुक्त आदित एव वा न संयुक्तस्तद् वरमभूदिति वियुक्ताऽसंयुक्तविषयाऽतीतानुमोदनया द्वेषविशेषादतीतकालविषयमार्तध्यानम्। एवं यद्वेषात्रिकालविषयमार्तध्यानं स प्रथमो भेदः प्रथमध्यानस्य १। [ध्या. श. ६]
अर्थतस्य द्वितीयभेदो विभाव्यते । तथाहि - शूलशिरोरोगादिवेदनाया अत्यर्थं यद्वियोगविषयदृढाध्यवसायस्तत्प्रतीकाराकुलितचेतसो वर्तमानसमयविषयः । कथंचित्तदभावे सति कथं ममानयायत्यां संयोगो न भवेदिति तदसम्प्रयोगचिन्तनमनागतसमयविषयम् । तथा वरमियान् समयः समतिक्रान्तः पाश्चात्यो यत्रेयमेवंविधा वेदना न
* दर्शनरत्नरत्नाकरग्रन्थे ध्यानस्वरूपं दर्शयितुं ध्यानशतकग्रन्थः स्तम्भीकृतः । तदनुसारेणात्र गद्यबद्धसरलसंस्कृतभाषायां
ध्याननिरूपणं कृतम् । तज्ज्ञापनार्थं प्रति पदार्थान्ते ध्यानशतकग्रन्थस्य गाथाक्रमोऽपि दर्शितोऽस्माभिः । सम्पा० ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org